5.2 अथ द्वितीयं ब्राह्मणम् ।

 


अथ द्वितीयं ब्राह्मणम् ।


          मन्त्र १[V.ii.1]

त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या

असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो

हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति

होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १॥


          मन्त्र २[V.ii.2]

अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो

हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति

होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २॥


          मन्त्र ३[V.ii.3]

अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच

द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दयध्वमिति न

आत्थेत्योमिति होवाच व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति

स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति । तदेतत्त्रयꣳ

शिक्षेद् दमं दानं दयामिति ॥ ३॥


इति द्वितीयं ब्राह्मणम् ॥

Comments

Popular posts from this blog

5.8 and all to the end of the book