5.3 अथ तृतीयं ब्राह्मणम् ।
अथ तृतीयं ब्राह्मणम् ।
मन्त्र १[V.iii.1]
एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वम् । तदेतत्त्र्यक्षरꣳ
हृदयमिति । हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य
एवं वेद । द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद ।
यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद ॥ १॥
इति तृतीयं ब्राह्मणम् ॥
Comments
Post a Comment