2.3 अथ तृतीयं ब्राह्मणम् ।

 


अथ तृतीयं ब्राह्मणम् ।


          मन्त्र १[II.iii.1]

द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च

स्थितं च यच्च सच्च त्यच्च ॥ १॥


          मन्त्र २[II.iii.2]

तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितं

एतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य

सत एष रसो य एष तपति सतो ह्येष रसः ॥ २॥


          मन्त्र ३[II.iii.3]

अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत्

तस्यैतस्यामूर्तस्यै तस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो

य एष एतस्मिन्मण्डले पुरुषस्तस्य ह्येष रस । इत्यधिदैवतम् ॥ ३॥


          मन्त्र ४[II.iii.4]

अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश

एतन्मर्त्यमेतत्स्थितमेतत्सत् तस्यैतस्य मूर्तस्यै तस्य

मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष

रसः ॥ ४॥


          मन्त्र ५[II.iii.5]

अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यद्

एतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष

रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः ॥ ५॥


          मन्त्र ६[II.iii.6]

तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं

यथेन्द्रगोपो यथाऽग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तꣳ ।

सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदा थात आदेशो

नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्त्यथ नामधेयꣳ सत्यस्य

सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६॥


इति तृतीयं ब्राह्मणम् ॥

Post a Comment

Previous Post Next Post

Popular Items