5.1 अथ पञ्चमोऽध्यायः । अथ प्रथमं ब्राह्मणम् ।
अथ पञ्चमोऽध्यायः ।
अथ प्रथमं ब्राह्मणम् ।
मन्त्र १[V.i.1]
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय
पूर्णमेवावशिष्यते । ॐ३ खं ब्रह्म खं पुराणं वायुरं खमिति
ह स्माऽऽह कौरव्यायणीपुत्रो । वेदोऽयम्ं ब्राह्मणा विदुर्वेदैनेन
यद्वेदितव्यम् ॥ १॥
इति प्रथमं ब्राह्मणम् ॥
Comments
Post a Comment