अथ षष्ठं ब्राह्मणम् ।
मन्त्र १[II.vi.1]
अथ वꣳशः पौतिमाष्यो गौपवनाद् गौपवनः पौतिमाष्यात्
पौतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात्
कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १॥
मन्त्र २[II.vi.2]
आग्निवेश्यादग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्चानभिम्लात
आनभिम्लातादनभिम्लात अनभिम्लातादनभिम्लातो गौतमाद् गौतमः
सैतवप्राचीनयोग्याभ्याꣳ, सैतवप्राचीनयोग्यौ पाराशर्यात्
पाराशर्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्च गौतमाच्च
गौतमो भारद्वाजाद् भारद्वाजः पाराशर्यात् पाराशर्यो वैजवापायनाद्
वैजवापायनः कौशिकायनेः कौशिकायनिः ॥ २॥
मन्त्र ३[II.vi.3]
घृतकौशिकाद् घृतकौशिकः पाराशर्यायणात् पारशर्यायणः
पाराशर्यात् पाराशर्यो जातूकर्ण्याज् जातूकर्ण्य आसुरायणाच्च यास्काच्च्-
ऽऽसुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरासुरिर्भारद्वाजाद्
भारद्वाज आत्रेयादत्रेयो माण्टेर्माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो
वात्स्याद् वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः
काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद्
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रवः
पथः सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य
आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्
विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्
दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः
प्राध्वꣳसनान् मृत्युः प्राध्वꣳसनः प्रध्वꣳसनात्
प्रध्वꣳसन एकर्षेः एकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः
सनारोः सनारुः सनातनात् सनातनः सनगात् सनगः परमेष्ठिनः
परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३॥
इति षष्ठं ब्राह्मणम् ॥
॥ इति बृहदारण्यकोपनिषदि द्वितीयोऽध्यायः ॥