4.6 अथ षष्ठं ब्राह्मणम् ।

 


अथ षष्ठं ब्राह्मणम् ।


          मन्त्र १[IV.vi.1]

अथ वꣳशः पौतिमाष्यो गौपवनाद् गौपवनः पौतिमाष्यात्

पौतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात्

कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १॥


          मन्त्र २[IV.vi.2]

आग्निवेश्यादग्निवेश्यो गार्ग्याद् गार्ग्यो गार्ग्याद् गार्ग्यो गौतमाद् गौतमः

सैतवात् सैतवः पाराशर्यायणात् पाराशार्यायणो गार्ग्यायणाद् गार्ग्यायण

उद्दालकायनादुद्दालकायनो जाबालायनाज् जाबालायनो माध्यन्दिनायनान्

माध्यन्दिनायनः सौकरायणात् सौकरायणः काषायणात् काषायणः

सायकायनात् सायकायनः कौशिकायनेः कौशिकायनिः ॥ २॥


          मन्त्र ३[IV.vi.3]

घृतकौशिकाद् घृतकौशिकः पाराशर्यायणात् पाराशर्यायणः

पाराशर्यात् पाराशर्यो जातूकर्ण्याज् जातूकर्ण्य आसुरायणाच्च यास्काच्चा

ऽऽसुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्

भारद्वाज आत्रेयादात्रेयो माण्टेर्माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो

वात्स्याद् वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः

काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद्

विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रव

पथः सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य

आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्

विश्वरूपस्त्वाष्ट्रोऽव्श्विभ्यामश्विनौ दधीच आथर्वणाद्

दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः

प्राध्वꣳसनान् मृत्युः प्राध्वꣳसनः प्रध्वꣳसनात्

प्रध्वꣳसन एकर्षेरेकर्षिर्विप्रचित्तेः विप्रचित्तिर्व्यष्टेर्व्यष्टिः

सनारोः सनारुः सनातनात् सनातनः सनगात् सनगः परमेष्ठिनः

परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३॥


इति षष्ठं ब्राह्मणम् ॥


॥ इति बृहदारण्यकोपनिषदि चतुर्थोऽध्यायः ॥

Post a Comment

Previous Post Next Post