3.3 अथ तृतीयं ब्राह्मणम् ।

 


अथ तृतीयं ब्राह्मणम् ।


          मन्त्र १[III.iii.1]

अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ । याज्ञवल्क्येति

होवाच मद्रेषु चरकाः पर्यव्रजाम ते पतञ्चलस्य काप्यस्य

गृहानैम । तस्याऽऽसीद् दुहिता गन्धर्वगृहीता तमपृच्छाम

कोऽसीति । सोऽब्रवीत् सुधन्वाऽऽङ्गिरस इति । तं यदा

लोकानामन्तानपृच्छामाथैतदथैनमब्रूम क्व पारिक्षिता अभवन्निति

क्व पारिक्षिता अभवन् स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता

अभवन्निति ॥ १॥


          मन्त्र २[III.iii.2]

स होवाचोवाच वै सोऽगच्छन्वै ते तद् यत्राश्वमेधयाजिनो

गच्छन्तीति । क्व न्वश्वमेधयाजिनो गच्छन्तीति । द्वात्रिꣳशतं

वै देवरथाह्न्यान्ययं लोकस्तꣳ समन्तं पृथिवी द्विस्तावत्पर्येति

ताꣳ समन्तं पृथिवी द्विस्तावत्समुद्रः पर्येति । तद्यावती क्षुरस्य

धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाऽऽकाशस्तान् इन्द्रः

सुपर्णो भूत्वा वायवे प्रायच्छत् तान् वायुरात्मनि धित्वा तत्रागमयद्यत्र

अश्वमेधयाजिनोऽभवन्नित्येवमिव वै स वायुमेव प्रशशꣳस

तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं

वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २॥


इति तृतीयं ब्राह्मणम् ॥

Comments

Popular posts from this blog

5.8 and all to the end of the book