3.4 अथ चतुर्थं ब्रह्मणम् ।
अथ चतुर्थं ब्रह्मणम् ।
मन्त्र १[III.iv.1]
अथ हैनमूषस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच
यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त
आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । यः प्राणेन प्राणिति
स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन
व्यानिति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर
एष त आत्मा सर्वान्तरः ॥ १॥
मन्त्र २[III.iv.2]
स होवाचोषस्तश्चाक्रायणः यथा विब्रूयादसौ गौरसावश्व
इत्येवमेवैतद्व्यपदिष्टं भवति । यदेव साक्षादपरोक्षाद् ब्रह्म
य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरो । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः
श्रोतारꣳ शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं
विजानीया एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तस्चाक्रायण
उपरराम ॥ २॥
इति चतुर्थं ब्राह्मणम् ॥
Comments
Post a Comment