3.2 अथ द्वितीयं ब्राह्मणम् ।
अथ द्वितीयं ब्राह्मणम् ।
मन्त्र १[III.ii.1]
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच
कति ग्रहाः कत्यतिग्रहा इत्यष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ
ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १॥
मन्त्र २[III.ii.2]
प्राणो वै ग्रहः । सोऽपानेनातिग्राहेण गृहीतोऽपानेन हि
गन्धाञ्जिघ्रति ॥ २॥
मन्त्र ३[III.ii.3]
वाग्वै ग्रहः । स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति ॥ ३॥
मन्त्र ४[III.ii.4]
जिह्वा वै ग्रहः । स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति ॥ ४॥
मन्त्र ५[III.ii.5]
चक्षुर्वै ग्रहः । स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि
पश्यति ॥ ५॥
मन्त्र ६[III.ii.6]
श्रोत्रं वै ग्रहः । स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि
शब्दाञ्शृणोति ।
मन्त्र ७[III.ii.7]
मनो वै ग्रहः । स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते ॥ ७॥
मन्त्र ८[III.ii.8]
हस्तौ वै ग्रहः । स कर्मणाऽतिग्राहेण गृहीतो हस्ताभ्याꣳ हि
कर्म करोति ॥ ८॥
मन्त्र ९[II.ii.9]
त्वग्वै ग्रहः । स स्पर्शेनातिग्राहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत ।
इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९॥
मन्त्र १०[III.ii.10]
याज्ञवल्क्येति होवाच यदिदꣳ सर्वं मृत्योरन्नं का स्वित्सा देवता
यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं
जयति ॥ १०॥
मन्त्र ११[III.ii.11]
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः
क्रामन्त्यहो३ नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स
उच्छ्वयत्याध्मायति आध्मातो मृतः शेते ॥ ११॥
मन्त्र १२[III.ii.12]
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति ।
नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ १२॥
मन्त्र १३[III.ii.13]
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं
प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीꣳ
शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च
रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्यहर सौम्य हस्तं
आर्तभागेति होवाऽऽचावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ
होत्क्रम्य मन्त्रयां चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ
ह यत्प्रशꣳसतुः कर्म हैव तत् प्रशꣳसतुः पुण्यो वै पुण्येन
कर्मणा भवति पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३॥
इति द्वितीयं ब्राह्मणम् ॥
Comments
Post a Comment