3.1 अथ तृतीयोध्यायः ॥ अथ प्रथमं ब्राह्मणम् ।

 


अथ तृतीयोध्यायः ॥



अथ प्रथमं ब्राह्मणम् ।


          मन्त्र १   [III.i.1]

ॐ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां

ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा

बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवाꣳ

सहस्रमवरुरोध दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १॥


          मन्त्र २   [III.i.2]

तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा

उदजतामिति । ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव

ब्रह्मचारिणमुवाचैताः सौम्योदज सामश्रवा३ इति । ता होदाचकार ।

ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेत्यथ ह

जनकस्य वैदेहस्य होताऽश्वलो बभूव । स हैनं पप्रच्छ त्वं

नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति । स होवाच नमो वयं

ब्रह्मिष्ठाय कुर्मो गोकामा एव वयꣳ स्म इति । तꣳ ह तत एव

प्रष्टुं दध्रे होताऽश्वलः ॥ २॥


          मन्त्र ३   [III.i.3]

याज्ञवल्क्येति होवाच यदिदꣳ सर्वं मृत्युनाऽऽप्तꣳ, सर्वं

मृत्युनाऽभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति ।

होत्रर्त्विजाऽइना वाचा वाग्वै यज्ञस्य होता । तद्येयं वाक् सोऽयमग्निः

स होता सा मुक्तिः साऽतिमुक्तिः ॥ ३॥


          मन्त्र ४   [III.i.4]

याज्ञवल्क्येति होवाच यदिदꣳ सर्वमहोरात्राभ्यामाप्तꣳ,

सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत

इत्यध्वर्युणर्त्विजा चक्षुषाऽऽदित्येन चक्षुर्वै

यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः सा

मुक्तिः साऽतिमुक्तिः ॥ ४॥


          मन्त्र ५   [III.i.5]

याज्ञवल्क्येति होवाच यदिदꣳ सर्वं

पूर्वपक्षापरपक्षाभ्यामाप्तꣳ, सर्वं

पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः

पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्युद्गात्रर्त्विजा वायुना प्राणेन

प्राणो वै यज्ञस्योद्गाता । तद्योऽयं प्राणः स वायुः स उद्गाता सा मुक्तिः

साऽतिमुक्तिः ॥ ५॥


          मन्त्र ६   [III.i.6]

याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाऽऽक्रमेन

यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण

मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा

सा मुक्तिः सातिमुक्तिरित्यतिमोक्षा अथ सम्पदः ॥ ६॥


          मन्त्र ७   [III.i.7]

याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति ।

तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव

तृतीया । किं ताभिर्जयतीति । यत् किञ्चेदं प्राणभृदिति ॥ ७॥


          मन्त्र ८   [III.i.8]

याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति ।

तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या

हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति देवलोकमेव

ताभिर्जयति दीप्यत इव हि देवलोको । या हुता अतिनेदन्ते पितृलोकमेव

ताभिर्जयत्यतीव हि पितृलोको । या हुता अधिशेरते मनुष्यलोकमेव

ताभिर्जयत्यध इव हि मनुष्यलोकः ॥ ८॥


          मन्त्र ९   [III.i.9]


याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो

देवताभिर्गोपायतीत्येकयेति । कतमा सैकेति । मन एवेत्यनन्तं वै

मनो ंअन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ ९॥


          मन्त्र १०   [III.i.10]

याज्ञवल्क्येति होवाच कत्ययमद्योद्गाताऽस्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति ।

तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव

तृतीया कतमास्ता या अध्यात्ममिति । प्राण एव पुरोनुवाक्याऽपानो याज्या

व्यानः शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्यया

जयत्यन्तरिक्षलोकं याज्यया द्युलोकꣳ शस्यया ततो ह होताऽश्वल

उपरराम ॥ १०॥


इति प्रथमं ब्राह्मणम् ॥

Post a Comment

Previous Post Next Post