1.3 अथ तृतीयं ब्राह्मणम् ।

 अथ तृतीयं ब्राह्मणम् ।

          मन्त्र १  [I.iii.1]

मन्त्र

द्वया ह प्राजापत्या देवाश्चासुराश्च ।
ततः कनीयसा एव देवा ज्यायसा असुराः ।
त एषु लोकेष्वस्पर्धन्त ।
ते ह देवा ऊचुः हन्त असुरान् यज्ञ उद्गीथेन अत्ययाम इति ॥ १॥

मन्त्र २[I.iii.2]

ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यो वागुदगायद् यो वाचि

भोगस्तं देवेभ्य आगायद् यत्कल्याणं वदति तदात्मने । ते विदुरनेन

वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स

पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥ २॥


          मन्त्र ३[I.iii.3]

अथ ह प्राणमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यः प्राण उदगायद्

यः प्राणे भोगस्तं देवेभ्य आगायद् यत्कल्याणं जिघ्रति तदात्मने ।

ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य

पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव

स पाप्मा ॥ ३॥


          मन्त्र ४[I.iii.4]

अथ ह चक्षुरूचुस्त्वं न उद्गायेति । तथेति । तेभ्यश्चक्षुरुदगायद्

यश्चक्षुषि भोगस्तं देवेभ्य आगायद् यत्कल्याणं पश्यति

तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य

पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव

स पाप्मा ॥ ४॥


          मन्त्र ५[I.iii.5]

अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यः श्रोत्रमुदगायद्

यः श्रोत्रे भोगस्तं देवेभ्य आगायद् यत्कल्याणꣳ शृणोति

तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य

पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपꣳ शृणोति स

एव स पाप्मा ॥ ५॥


          मन्त्र ६[I.iii.6]

अथ ह मन ऊचुस्त्वं न उद्गायेति । तथेति । तेभ्यो मन उदगायद्

यो मनसि भोगस्तं देवेभ्य आगायद् यत्कल्याणꣳ सङ्कल्पयति

तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य

पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपꣳ सङ्कल्पयति स

एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन् पाप्मभिसुपासृजन्

एवमेनाः पाप्मनाऽविध्यन् ॥ ६॥


          मन्त्र ७[I.iii.7]

अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति । तथेति । तेभ्य एष

प्राण उदगायत् ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य

पाप्मनाविध्यन् । स यथाश्मानमृत्वा लोष्टो विध्वꣳसेतैवꣳ

हैव विध्वꣳसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन् पराऽसुराः ।

भवत्यात्मना पराऽस्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥ ७॥


          मन्त्र ८[I.iii.8]

ते होचुः क्व नु सोऽभूद् यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य

आङ्गिरसोऽङ्गानाꣳ हि रसः ॥ ८॥


          मन्त्र ९[I.iii.9]

सा वा एषा देवता दूर्नाम दूरꣳ ह्यस्या मृत्युर्दूरꣳ ह वा

अस्मान्मृत्युर्भवति य एवं वेद ॥ ९॥


          मन्त्र १०[I.iii.10]

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्राऽऽसां

दिशामन्तस्तद्गमयां चकार तदासां पाप्मनो विन्यदधात् तस्मान्न

जनमियान् नान्तमियान् नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १०॥


          मन्त्र ११[I.iii.11]

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना

मृत्युमत्यवहत् ॥ ११॥


          मन्त्र १२[I.iii.12]

स वै वाचमेव प्रथमामत्यवहत् सा यदा मृत्युमत्यमुच्यत

सोऽग्निरभवत् सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२॥


          मन्त्र १३[I.iii.13]

अथ प्राणमत्यवहत् स यदा मृत्युमत्यमुच्यत स वायुरभवत् सोऽयं

वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३॥


          मन्त्र १४[I.iii.14]

अथ चक्षुरत्यवहत् तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्

सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १४॥


          मन्त्र १५[I.iii.15]

अथ श्रोत्रमत्यवहत् तद्यदा मृत्युमत्यमुच्यत ता

दिशोऽभवꣳस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५॥


          मन्त्र १६[I.iii.16]

अथ मनोऽत्यवहत् तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्

सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवꣳ ह वा एनमेषा

देवता मृत्युमतिवहति य एवं वेद ॥ १६॥


          मन्त्र १७[I.iii.17]

अथाऽऽत्मनेऽन्नाद्यमागायद् यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यत

इह प्रतितिष्ठति ॥ १७॥


          मन्त्र १८[I.iii.18]

ते देवा अब्रुवन्न् एतावद्वा इदꣳ सर्वं यदन्नं तदात्मन

आगासीरनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माऽभिसंविशतेति ।

तथेति । तꣳ समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्ति

तेनैतास्तृप्यन्त्येवꣳ ह वा एनꣳ स्वा अभिसंविशन्ति भर्ता

स्वानाꣳ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद ।

य उ हैवंविदꣳ स्वेषु प्रतिप्रतिर्बुभूषति न हैवालं भार्येभ्यो

भवत्यथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स

हैवालं भार्येभ्यो भवति ॥ १८॥


          मन्त्र १९[I.iii.19]

सोऽयास्य आङ्गिरसोऽङ्गानाꣳ हि रसः । प्राणो वा अङ्गानाꣳ रसः ।

प्राणो हि वा अङ्गानाꣳ रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति

तदेव तच्छुष्यत्येष हि वा अङ्गानाꣳ रसः ॥ १९॥


          मन्त्र २०[I.iii.20]

एष उ एव बृहस्पतिर्वाग्वै बृहती तस्या एष पतिस्तस्मादु

बृहस्पतिः ॥ २०॥


          मन्त्र २१[I.iii.21]

एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु

ब्रह्मणस्पतिः ॥ २१॥


          मन्त्र २२[I.iii.22]

एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् ।

यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः

समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यꣳ सलोकतां

य एवमेतत्साम वेद ॥ २२॥


          मन्त्र २३[I.iii.23]

एष उ वा उद्गीथः । प्राणो वा उत् प्राणेन हीदꣳ सर्वमुत्तब्धम् ।

वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३॥


          मन्त्र २४[I.iii.24]

तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य

राजा मूर्धानं विपातयताद् यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति ।

वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४॥


          मन्त्र २५[I.iii.25]

तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर

एव स्वम् । तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा

स्वरसम्पन्नयाऽऽर्त्विज्यं कुर्यात् तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त

एवाथो यस्य स्वं भवति । भवति हास्य स्वं य एवमेतत्साम्नः स्वं

वेद ॥ २५॥


          मन्त्र २६[I.iii.26]

तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् । तस्य वै

स्वर एव सुवर्णम् । भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं

वेद ॥ २६॥


          मन्त्र २७[I.iii.27]

तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । तस्य

वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते

ऽन्न इत्यु हैक आहुः ॥ २७॥


          मन्त्र २८[I.iii.28]

अथातः पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम

प्रस्तौति । स यत्र प्रस्तुयात् तदेतानि जपेदसतो मा सद् गमय

तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमयेति । स यदाहासतो मा

सद्गमयेति मृत्युर्वा असत् सदमृतं मृत्योर्माऽमृतं गमयामृतं

मा कुर्वित्येवैतदाह । तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो

ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।

मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्त्यथ यानीतराणि

स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् तस्मादु तेषु वरं वृणीत यं

कामं कामयेत तꣳ । स एष एवंविदुद्गाताऽऽत्मने वा यजमानाय वा

यं कामं कामयते तमागायति । तद्धैतल्लोकजिदेव न हैवालोक्यताया

आशास्ति य एवमेतत्साम वेद ॥ २८॥


इति तृतीयं ब्राह्मणम् ॥

Post a Comment

Previous Post Next Post