अथ तृतीयं ब्राह्मणम् ।
मन्त्र १ [I.iii.1]
मन्त्र
द्वया ह प्राजापत्या देवाश्चासुराश्च ।
ततः कनीयसा एव देवा ज्यायसा असुराः ।
त एषु लोकेष्वस्पर्धन्त ।
ते ह देवा ऊचुः हन्त असुरान् यज्ञ उद्गीथेन अत्ययाम इति ॥ १॥
मन्त्र २[I.iii.2]
ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यो वागुदगायद् यो वाचि
भोगस्तं देवेभ्य आगायद् यत्कल्याणं वदति तदात्मने । ते विदुरनेन
वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स
पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥ २॥
मन्त्र ३[I.iii.3]
अथ ह प्राणमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यः प्राण उदगायद्
यः प्राणे भोगस्तं देवेभ्य आगायद् यत्कल्याणं जिघ्रति तदात्मने ।
ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव
स पाप्मा ॥ ३॥
मन्त्र ४[I.iii.4]
अथ ह चक्षुरूचुस्त्वं न उद्गायेति । तथेति । तेभ्यश्चक्षुरुदगायद्
यश्चक्षुषि भोगस्तं देवेभ्य आगायद् यत्कल्याणं पश्यति
तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव
स पाप्मा ॥ ४॥
मन्त्र ५[I.iii.5]
अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यः श्रोत्रमुदगायद्
यः श्रोत्रे भोगस्तं देवेभ्य आगायद् यत्कल्याणꣳ शृणोति
तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपꣳ शृणोति स
एव स पाप्मा ॥ ५॥
मन्त्र ६[I.iii.6]
अथ ह मन ऊचुस्त्वं न उद्गायेति । तथेति । तेभ्यो मन उदगायद्
यो मनसि भोगस्तं देवेभ्य आगायद् यत्कल्याणꣳ सङ्कल्पयति
तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपꣳ सङ्कल्पयति स
एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन् पाप्मभिसुपासृजन्
एवमेनाः पाप्मनाऽविध्यन् ॥ ६॥
मन्त्र ७[I.iii.7]
अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति । तथेति । तेभ्य एष
प्राण उदगायत् ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
पाप्मनाविध्यन् । स यथाश्मानमृत्वा लोष्टो विध्वꣳसेतैवꣳ
हैव विध्वꣳसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन् पराऽसुराः ।
भवत्यात्मना पराऽस्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥ ७॥
मन्त्र ८[I.iii.8]
ते होचुः क्व नु सोऽभूद् यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य
आङ्गिरसोऽङ्गानाꣳ हि रसः ॥ ८॥
मन्त्र ९[I.iii.9]
सा वा एषा देवता दूर्नाम दूरꣳ ह्यस्या मृत्युर्दूरꣳ ह वा
अस्मान्मृत्युर्भवति य एवं वेद ॥ ९॥
मन्त्र १०[I.iii.10]
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्राऽऽसां
दिशामन्तस्तद्गमयां चकार तदासां पाप्मनो विन्यदधात् तस्मान्न
जनमियान् नान्तमियान् नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १०॥
मन्त्र ११[I.iii.11]
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना
मृत्युमत्यवहत् ॥ ११॥
मन्त्र १२[I.iii.12]
स वै वाचमेव प्रथमामत्यवहत् सा यदा मृत्युमत्यमुच्यत
सोऽग्निरभवत् सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२॥
मन्त्र १३[I.iii.13]
अथ प्राणमत्यवहत् स यदा मृत्युमत्यमुच्यत स वायुरभवत् सोऽयं
वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३॥
मन्त्र १४[I.iii.14]
अथ चक्षुरत्यवहत् तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्
सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १४॥
मन्त्र १५[I.iii.15]
अथ श्रोत्रमत्यवहत् तद्यदा मृत्युमत्यमुच्यत ता
दिशोऽभवꣳस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५॥
मन्त्र १६[I.iii.16]
अथ मनोऽत्यवहत् तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्
सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवꣳ ह वा एनमेषा
देवता मृत्युमतिवहति य एवं वेद ॥ १६॥
मन्त्र १७[I.iii.17]
अथाऽऽत्मनेऽन्नाद्यमागायद् यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यत
इह प्रतितिष्ठति ॥ १७॥
मन्त्र १८[I.iii.18]
ते देवा अब्रुवन्न् एतावद्वा इदꣳ सर्वं यदन्नं तदात्मन
आगासीरनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माऽभिसंविशतेति ।
तथेति । तꣳ समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्ति
तेनैतास्तृप्यन्त्येवꣳ ह वा एनꣳ स्वा अभिसंविशन्ति भर्ता
स्वानाꣳ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद ।
य उ हैवंविदꣳ स्वेषु प्रतिप्रतिर्बुभूषति न हैवालं भार्येभ्यो
भवत्यथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स
हैवालं भार्येभ्यो भवति ॥ १८॥
मन्त्र १९[I.iii.19]
सोऽयास्य आङ्गिरसोऽङ्गानाꣳ हि रसः । प्राणो वा अङ्गानाꣳ रसः ।
प्राणो हि वा अङ्गानाꣳ रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति
तदेव तच्छुष्यत्येष हि वा अङ्गानाꣳ रसः ॥ १९॥
मन्त्र २०[I.iii.20]
एष उ एव बृहस्पतिर्वाग्वै बृहती तस्या एष पतिस्तस्मादु
बृहस्पतिः ॥ २०॥
मन्त्र २१[I.iii.21]
एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु
ब्रह्मणस्पतिः ॥ २१॥
मन्त्र २२[I.iii.22]
एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् ।
यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः
समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यꣳ सलोकतां
य एवमेतत्साम वेद ॥ २२॥
मन्त्र २३[I.iii.23]
एष उ वा उद्गीथः । प्राणो वा उत् प्राणेन हीदꣳ सर्वमुत्तब्धम् ।
वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३॥
मन्त्र २४[I.iii.24]
तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य
राजा मूर्धानं विपातयताद् यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति ।
वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४॥
मन्त्र २५[I.iii.25]
तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर
एव स्वम् । तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा
स्वरसम्पन्नयाऽऽर्त्विज्यं कुर्यात् तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त
एवाथो यस्य स्वं भवति । भवति हास्य स्वं य एवमेतत्साम्नः स्वं
वेद ॥ २५॥
मन्त्र २६[I.iii.26]
तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् । तस्य वै
स्वर एव सुवर्णम् । भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं
वेद ॥ २६॥
मन्त्र २७[I.iii.27]
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । तस्य
वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते
ऽन्न इत्यु हैक आहुः ॥ २७॥
मन्त्र २८[I.iii.28]
अथातः पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम
प्रस्तौति । स यत्र प्रस्तुयात् तदेतानि जपेदसतो मा सद् गमय
तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमयेति । स यदाहासतो मा
सद्गमयेति मृत्युर्वा असत् सदमृतं मृत्योर्माऽमृतं गमयामृतं
मा कुर्वित्येवैतदाह । तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो
ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्त्यथ यानीतराणि
स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् तस्मादु तेषु वरं वृणीत यं
कामं कामयेत तꣳ । स एष एवंविदुद्गाताऽऽत्मने वा यजमानाय वा
यं कामं कामयते तमागायति । तद्धैतल्लोकजिदेव न हैवालोक्यताया
आशास्ति य एवमेतत्साम वेद ॥ २८॥
इति तृतीयं ब्राह्मणम् ॥