1.4 अथ चतुर्थं ब्राह्मणम् ।

 


अथ चतुर्थं ब्राह्मणम् ।


          मन्त्र १   [I.iv.1]

आत्मैवेदमग्र आसीत्पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्

सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहन्नामाभवत् । तस्मादप्येतर्ह्यामन्त्रितो

ऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति । स

यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत् तस्मात्पुरुषः । ओषति ह

वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ १॥


          मन्त्र २[I.iv.2]

सोऽबिभेत् तस्मादेकाकी बिभेति । स हायमीक्षां चक्रे यन्मदन्यन्नास्ति

कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत्

द्वितीयाद्वै भयं भवति ॥ २॥


          मन्त्र ३[I.iv.3]

स वै नैव रेमे तस्मादेकाकी न रमते । स द्वितीयमैच्छत्

स हैतावानास यथा स्त्रीपुमाꣳसौ सम्परिष्वक्तौ ।

स इममेवाऽऽत्मानं द्वेधाऽपातयत् । ततः पतिश्च पत्नी

चाभवताम् । तस्मादिदमर्धबृगलमिव स्व इति ह स्माऽऽह

याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव । ताꣳ समभवत्

ततो मनुष्या अजायन्त ॥ ३॥


          मन्त्र ४[I.iv.4]

सो हेयमीक्षां चक्रे कथं नु माऽऽत्मन एव जनयित्वा

सम्भवति । हन्त तिरोऽसानीति । सा गौरभवद् ऋषभ

इतरस्ताꣳ समेवाभवत् ततो गावोऽजायन्त । वडवेतराऽभवद्

अश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्ताꣳ समेवाभवत्

तत एकशफमजायत अजेतराऽभवद् वस्त इतरोऽविरितरा मेष

इतरस्ताꣳ समेवाभवत् ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च

मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ ४॥


          मन्त्र ५[I.iv.5]

सोऽवेदहं वाव सृष्टिरस्म्यहꣳ हीदꣳ सर्वमसृक्षीति ।

ततः सृष्टिरभवत् सृष्ट्याꣳ हास्यैतस्यां भवति य एवं वेद ॥ ५॥


          मन्त्र ६[I.iv.6]

अथेत्यभ्यमन्थत् स मुखाच्च योनेर्हस्ताभ्यां

चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतोऽलोमका

हि योनिरन्तरतस्तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं

देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवा अथ

यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोमः । एतावद्वा

इदꣳ सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः ।

सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः

सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्याꣳ हास्यैतस्यां

भवति य एवं वेद ॥ ६॥


          मन्त्र ७[I.iv.7]

तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियतासौ

नामाऽयमिदꣳरूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव

व्याक्रियतेऽसौ नामायमिदꣳरूप इति । स एष इह प्रविष्ट आ

नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद् विश्वम्भरो वा

विश्वम्भरकुलाये तं न पश्यन्त्यकृत्स्नो हि सः प्राणन्नेव प्राणो

नाम भवति वदन्वाक् पश्यंश्चक्षुः शृण्वञ्ह्रोत्रं मन्वानो

मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स

वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते

सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन

ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिꣳ श्लोकं

विन्दते य एवं वेद ॥ ७॥


          मन्त्र ८[I.iv.8]

तदेतत्प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं

यदयमात्मा । स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियꣳ

रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत । स य

आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ ८॥


          मन्त्र ९[I.iv.9]

तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु

तद्ब्रह्मावेद् यस्मात्तत्सर्वमभवदिति ॥ ९॥


          मन्त्र १०[I.iv.10]

ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मीति ।

तस्मात्तत्सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्

तथर्षीणां तथा मनुष्याणाम् । तद्धैतत्पश्यन्नृषिर्वामदेवः

प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्चेति । तदिदमप्येतर्हि

य एवं वेदाहं ब्रह्मास्मीति इति स इदꣳ सर्वं भवति तस्य ह

न देवाश्चनाभूत्या ईशत आत्मा ह्येषाꣳ स भवत्यथ योऽन्यां

देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद । यथा पशुरेवꣳ

स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः

पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति

किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १०॥


मनुष्यास्विद्युर्मन्त्र ११


          मन्त्र ११[I.iv.11]

ब्रह्म वा इदमग्र आसीदेकमेव । तदेकꣳ सन्न व्यभवत् तच्छ्रेयो

रूपमत्यसृजत क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो

रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात्क्षत्रात्परं नास्ति

तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये । क्षत्र एव तद्यशो

दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्यद्यपि राजा परमतां

गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । य उ एनꣳ हिनस्ति

स्वाꣳ स योनिमृच्छति । स पापीयान्भवति यथा श्रेयाꣳसꣳ

हिꣳसित्वा ॥ ११॥


          मन्त्र १२[I.iv.12]

स नैव व्यभवत् स विशमसृजत यान्येतानि देवजातानि गणश

आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १२॥


          मन्त्र १३[I.iv.13]

स नैव व्यभवत् स शौद्रं वर्णमसृजत पूषणमियं वै

पूषेयꣳ हीदꣳ सर्वं पुष्यति यदिदं किञ्च ॥ १३॥


          मन्त्र १४[I.iv.14]

स नैव व्यभवत् तच्छ्रेयो रूपमत्यसृजत धर्मम् ।

तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात् परं नास्त्यथो

अबलीयान् बलीयाꣳसमाशꣳसते धर्मेण यथा राज्ञैवम् । यो वै स

धर्मः सत्यं वै तत् तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति धर्मं

वा वदन्तꣳ सत्यं वदतीत्येतद्ध्येवैतदुभयं भवति ॥ १४॥


          मन्त्र १५[I.iv.15]

तदेतद्ब्रह्म क्षत्रं विट् शूद्रस्तदग्निनैव देवेषु ब्रह्माभवद्

ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण

शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्याꣳ

हि रूपाभ्यां ब्रह्माभवदथ यो ह वा अस्माल्लोकात्स्वं

लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो

वाऽननूक्तोऽन्यद्वा कर्माकृतम् । यदि ह वा अप्यनेवंविन्महत्पुण्यं

कर्म करोति तद्धास्यान्ततः क्षीयत एवाऽऽत्मानमेव लोकमुपासीत । स

य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽऽत्मनो

यद्यत्कामयते तत्तत्सृजते ॥ १५॥


          मन्त्र १६[I.iv.16]

अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते

तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत् पितृभ्यो

निपृणाति अथ यत्प्रजामिच्छते तेन पितृणामथ यन्मनुष्यान्वासयते

यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं

विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयाꣳस्या पिपीलिकाभ्य

उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेद्

एवꣳ हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा

एतद्विदितं मीमाꣳसितम् ॥ १६॥


          मन्त्र १७[I.iv.17]

आत्मैवेदमग्र आसीदेक एव । सोऽकामयत जाया मे स्यादथ प्रजायेयाथ

वित्तं मे स्यात् अथ कर्म कुर्वीयेत्येतावान्वै कामो नेच्छꣳश्चनातो

भूयो विन्देत् तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ

वित्तं मे स्यादथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं

न प्राप्नोत्यकृत्स्न एव तावन् मन्यते । तस्यो कृत्स्नता । मन

एवास्याऽऽत्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा

हि तद्विन्दते श्रोत्रं दैवꣳ श्रोत्रेण हि तच्छृणोत्यात्मैवास्य

कर्माऽऽत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः

पाङ्क्तः पुरुषः पाङ्क्तमिदꣳ सर्वं यदिदं किञ्च । तदिदꣳ

सर्वमाप्नोति य एवं वेद ॥ १७॥


इति चतुर्थं ब्राह्मणम् ॥

Post a Comment

Previous Post Next Post