1.6 अथ षष्ठं ब्राह्मणम् ।

 


अथ षष्ठं ब्राह्मणम् ।


          मन्त्र १[I.vi.1]

त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नां वागित्येतदेषामुक्थमतो

हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषाꣳ सामैतद्धि सर्वैर्नामभिः

सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १॥


          मन्त्र २[I.vi.2]

अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति ।

एतदेषाꣳ सामैतद्धि सर्वै रूपैः समम् । एतदेषां ब्रह्मैतद्धि

सर्वाणि रूपाणि बिभर्ति ॥ २॥


          मन्त्र ३[I.vi.3]

अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि

कर्माण्युत्तिष्ठन्त्येतदेषाꣳ सामैतद्धि सर्वैः कर्मभिः समं

एतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति । तदेतत्त्रयꣳ

सदेकमयमात्माऽऽत्मो एकः सन्नेतत्त्रयम् । तदेतदमृतꣳ सत्येन

छन्नम् । प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः ॥ ३॥


इति षष्ठं ब्राह्मणम् ॥


॥ इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥

Post a Comment

Previous Post Next Post

Popular Items