4.4 अथ चतुर्थं ब्राह्मणम् ।
अथ चतुर्थं ब्राह्मणम् ।
मन्त्र १[IV.iv.1]
स यत्रायमात्माऽबल्यं न्येत्य सम्मोहमिव न्येत्यथैनमेते प्राणा
अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स
यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपज्ञो भवति ॥ १॥
मन्त्र २[IV.iv.2]
एकीभवति न पश्यतीत्याहुरेकीभवति न जिघ्रतीत्याहुरेकीभवति
न रसयतीत्याहुरेकीभवति न वदतीत्याहुरेकीभवति
न शृणोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवति न
स्पृशतीत्याहुरेकीभवति न विजानातीत्याहुस्तस्य हैतस्य हृदयस्याग्रं
प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो
वाऽन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति
प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति । सविज्ञानो भवति
सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा
च ॥ २॥
मन्त्र ३[IV.iv.3]
तद्यथा तृणजलायुका तृणस्यान्तं
गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपसꣳहरत्येवमेवायमात्मेदꣳ
शरीरं निहत्याविद्यां
गमयित्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसꣳहरति ॥ ३॥
मन्त्र ४[IV.iv.4]
तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरꣳ
रूपं तनुत एवमेवायमात्मेदꣳ शरीरं निहत्याविद्यां
गमयित्वाऽन्यन्नवतरं कल्याणतरꣳ रूपं कुरुते पित्र्यं वा
गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ॥
४॥ ब्राह्मम् वा प्राजापत्यम् वा दैवम् वा अन्येभ्यस्वा भूतेभ्यस्
मन्त्र ५[IV.iv.5]
स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः
श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः
काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः
सर्वमयस्श्रोत्रमयसाकाशमयस्वायुमयस्तेजोमय-
सापोमयस्पृथिवीमयस्क्रोधमयसक्रोधमय- शर्षमयसहर्षमयस्
तद्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति ।
साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा
भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति स
यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते
यत्कर्म कुरुते तदभिसम्पद्यते ॥ ५॥
मन्त्र ६[IV.iv.6]
तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो
यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण् इति नु कामयमानोऽथाकामयमानो
योऽकामो निष्काम भवति आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति
ब्रह्मैव सन्ब्रह्माप्येति ॥ ६॥
मन्त्र ७[IV.iv.7]
तदेष श्लोको भवति यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि
श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ॥
तद्यथाऽहिनिर्व्लयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदꣳ
शरीरꣳ शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव
सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७॥
मन्त्र ८[IV.iv.8]
तदेते श्लोका भवन्ति । अणुः पन्था विततः पुराणो माꣳ
स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं
लोकमित ऊर्ध्वं विमुक्ताः ॥ ८॥
मन्त्र ९[IV.iv.9]
तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलꣳ हरितं लोहितं च । एष
पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९॥
मन्त्र १०[IV.iv.10]
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य
उ विद्यायाꣳ रताः ॥ १०॥
मन्त्र ११[IV.iv.11]
अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः ताꣳस्ते
प्रेत्याभिगच्छन्त्यविद्वाꣳसोऽबुधो जनाः ॥ ११॥
मन्त्र १२[IV.iv.12]
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः किमिच्छन्कस्य कामाय
शरीरमनुसञ्ज्वरेत् ॥ १२॥
मन्त्र १३[IV.iv.13]
यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन्सन्देह्ये गहने प्रविष्टः । स
विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३॥
मन्त्र १४[IV.iv.14]
इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः । ये
तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४॥
मन्त्र १५[IV.iv.15]
यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो
विजुगुप्सते ॥ १५॥
मन्त्र १६[IV.iv.16]
यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । तद्देवा ज्योतिषां
ज्योतिरायुर्होपासतेऽमृतम् ॥ १६॥
मन्त्र १७[IV.iv.17]
यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य
आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ॥ १७॥
मन्त्र १८[IV.iv.18]
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो
ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८॥
मन्त्र १९[IV.iv.19]
मनसैवानुद्रष्टव्यं नेह नानाऽस्ति किं चन । मृत्योः स
मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९॥
मन्त्र २०[IV.iv.20]
एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् । विरजः पर आकाशादज
आत्मा महान्ध्रुवः ॥ २०॥
मन्त्र २१[IV.iv.21]
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापनꣳ हि तदिति ॥ २१॥
मन्त्र २२[IV.iv.22]
स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य
एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः
सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष
सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां
लोकानामसम्भेदाय । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति
यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवत्य्विदित्वा
मुनिस्भवति एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्त्येतद्ध स्म
वै तत्पूर्वे विद्वाꣳसः प्रजां न कामयन्ते किं प्रजया करिष्यामो
येषां नोऽयमात्माऽयं लोक इति । ते ह स्म पुत्रैषणायाश्च
वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति
या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते
एषणे एव भवतः । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते
ऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते
न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः
कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते
तपतः ॥ २२॥
मन्त्र २३[IV.iv.23]
तदेतदृचाभ्युक्तम् । एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा
नो कनीयान् । तस्यैव स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा
पापकेनेति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो
भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा
तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति
विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति एष ब्रह्मलोकः सम्राड् इति
होवाच याज्ञवल्क्यः । सोऽहं भगवते विदेहान्ददामि माम् चापि सह
दास्यायेति ॥ २३॥
मन्त्र २४[IV.iv.24]
स वा एष महानज आत्माऽन्नादो वसुदानो विन्दते वसु य एवं वेद ॥ २४॥
मन्त्र २५[IV.iv.25]
स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै
ब्रह्माभयꣳ हि वै ब्रह्म भवति य एवं वेद ॥ २५॥
इति चतुर्थं ब्राह्मणम् ।
Comments
Post a Comment