4.4 अथ चतुर्थं ब्राह्मणम् ।

 


अथ चतुर्थं ब्राह्मणम् ।


          मन्त्र १[IV.iv.1]

स यत्रायमात्माऽबल्यं न्येत्य सम्मोहमिव न्येत्यथैनमेते प्राणा

अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स

यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपज्ञो भवति ॥ १॥


          मन्त्र २[IV.iv.2]

एकीभवति न पश्यतीत्याहुरेकीभवति न जिघ्रतीत्याहुरेकीभवति

न रसयतीत्याहुरेकीभवति न वदतीत्याहुरेकीभवति

न शृणोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवति न

स्पृशतीत्याहुरेकीभवति न विजानातीत्याहुस्तस्य हैतस्य हृदयस्याग्रं

प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो

वाऽन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति

प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति । सविज्ञानो भवति

सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा

च ॥ २॥


          मन्त्र ३[IV.iv.3]

तद्यथा तृणजलायुका तृणस्यान्तं

गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपसꣳहरत्येवमेवायमात्मेदꣳ

शरीरं निहत्याविद्यां

गमयित्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसꣳहरति ॥ ३॥


          मन्त्र ४[IV.iv.4]

तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरꣳ

रूपं तनुत एवमेवायमात्मेदꣳ शरीरं निहत्याविद्यां

गमयित्वाऽन्यन्नवतरं कल्याणतरꣳ रूपं कुरुते पित्र्यं वा

गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ॥


४॥ ब्राह्मम् वा प्राजापत्यम् वा दैवम् वा अन्येभ्यस्वा भूतेभ्यस्


          मन्त्र ५[IV.iv.5]

स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः

श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः

काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः

सर्वमयस्श्रोत्रमयसाकाशमयस्वायुमयस्तेजोमय-

सापोमयस्पृथिवीमयस्क्रोधमयसक्रोधमय- शर्षमयसहर्षमयस्

तद्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति ।

साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा

भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति स

यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते

यत्कर्म कुरुते तदभिसम्पद्यते ॥ ५॥


          मन्त्र ६[IV.iv.6]

तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो

यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।

तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण् इति नु कामयमानोऽथाकामयमानो

योऽकामो निष्काम भवति आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति

ब्रह्मैव सन्ब्रह्माप्येति ॥ ६॥


          मन्त्र ७[IV.iv.7]

तदेष श्लोको भवति यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि

श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ॥


तद्यथाऽहिनिर्व्लयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदꣳ

शरीरꣳ शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव

सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७॥


          मन्त्र ८[IV.iv.8]

तदेते श्लोका भवन्ति । अणुः पन्था विततः पुराणो माꣳ

स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं

लोकमित ऊर्ध्वं विमुक्ताः ॥ ८॥


          मन्त्र ९[IV.iv.9]

तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलꣳ हरितं लोहितं च । एष

पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९॥


          मन्त्र १०[IV.iv.10]

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य

उ विद्यायाꣳ रताः ॥ १०॥


          मन्त्र ११[IV.iv.11]

अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः ताꣳस्ते

प्रेत्याभिगच्छन्त्यविद्वाꣳसोऽबुधो जनाः ॥ ११॥


          मन्त्र १२[IV.iv.12]

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः किमिच्छन्कस्य कामाय

शरीरमनुसञ्ज्वरेत् ॥ १२॥


          मन्त्र १३[IV.iv.13]

यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन्सन्देह्ये गहने प्रविष्टः । स

विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३॥


          मन्त्र १४[IV.iv.14]

इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः । ये

तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४॥


          मन्त्र १५[IV.iv.15]

यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो

विजुगुप्सते ॥ १५॥


          मन्त्र १६[IV.iv.16]

यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । तद्देवा ज्योतिषां

ज्योतिरायुर्होपासतेऽमृतम् ॥ १६॥


          मन्त्र १७[IV.iv.17]

यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य

आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ॥ १७॥


          मन्त्र १८[IV.iv.18]

प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो

ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८॥


          मन्त्र १९[IV.iv.19]

मनसैवानुद्रष्टव्यं नेह नानाऽस्ति किं चन । मृत्योः स

मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९॥


          मन्त्र २०[IV.iv.20]

एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् । विरजः पर आकाशादज

आत्मा महान्ध्रुवः ॥ २०॥


          मन्त्र २१[IV.iv.21]

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।

नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापनꣳ हि तदिति ॥ २१॥


          मन्त्र २२[IV.iv.22]

स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य

एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः

सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष

सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां

लोकानामसम्भेदाय । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति

यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवत्य्विदित्वा

मुनिस्भवति एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्त्येतद्ध स्म

वै तत्पूर्वे विद्वाꣳसः प्रजां न कामयन्ते किं प्रजया करिष्यामो

येषां नोऽयमात्माऽयं लोक इति । ते ह स्म पुत्रैषणायाश्च

वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति

या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते

एषणे एव भवतः । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते

ऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते

न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः

कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते

तपतः ॥ २२॥


          मन्त्र २३[IV.iv.23]

तदेतदृचाभ्युक्तम् । एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा

नो कनीयान् । तस्यैव स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा

पापकेनेति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो

भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा

तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति

विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति एष ब्रह्मलोकः सम्राड् इति

होवाच याज्ञवल्क्यः । सोऽहं भगवते विदेहान्ददामि माम् चापि सह

दास्यायेति ॥ २३॥


          मन्त्र २४[IV.iv.24]

स वा एष महानज आत्माऽन्नादो वसुदानो विन्दते वसु य एवं वेद ॥ २४॥


          मन्त्र २५[IV.iv.25]

स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै

ब्रह्माभयꣳ हि वै ब्रह्म भवति य एवं वेद ॥ २५॥


इति चतुर्थं ब्राह्मणम् ।

Comments

Popular posts from this blog

5.8 and all to the end of the book