4.3 अथ तृतीयं ब्राह्मणम् ।

 


अथ तृतीयं ब्राह्मणम् ।


          मन्त्र १[IV.iii.1]

जनकꣳ ह वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य

इति स मेने न वदिष्य इत्यथ ह यज्जनकश्च वैदेहो

याज्ञवल्क्यश्चाग्निहोत्रे समूदाते तस्मै ह याज्ञवल्क्यो वरं ददौ ।

स ह कामप्रश्नमेव वव्रे । तꣳ हास्मै ददौ । तꣳ ह सम्राडेव

पूर्वं पप्रच्छ ॥ १॥


          मन्त्र २[IV.iii.2]

याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इत्यादित्यज्योतिः सम्राड् इति

होवाचाऽऽदित्येनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते

विपल्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ २॥


          मन्त्र ३[IV.iii.3]

अस्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिरेवायं पुरुष इति । चन्द्रमा

एवास्य ज्योतिर्भवतीति चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म

कुरुते विपल्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ ३॥


          मन्त्र ४[IV.iii.4]

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किञ्ज्योतिरेवायं पुरुष

इत्यग्निरेवास्य ज्योतिर्भवत्यग्निनैवायं ज्योतिषाऽऽस्ते पल्ययते

कर्म कुरुते विपल्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ ४॥


          मन्त्र ५[IV.iii.5]

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ

किञ्ज्योतिरेवायं पुरुष इति । वागेवास्य ज्योतिर्भवतीति वाचैवायं

ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । तस्माद्वै सम्राड् अपि

यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र

न्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ ५॥


          मन्त्र ६[IV.iii.6]

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां

वाचि किञ्ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवत्यात्मनैवायं

ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६॥


          मन्त्र ७[IV.iii.7]

कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः

विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः पुरुषस्स समानः

सन्नुभौ लोकावनुसञ्चरति । ध्यायतीव लेलायतीव स हि स्वप्नो

भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७॥


          मन्त्र ८[IV.iii.8]

स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः

सꣳसृज्यते । स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ ८॥


          मन्त्र ९[IV.iii.9]

तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं

च सन्ध्यं तृतीयꣳ स्वप्नस्थानं तस्मिन्सन्ध्ये स्थाने

तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च अथ

यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान्पाप्मन

आनन्दाꣳश्च पश्यति । पश्यति स यत्र प्रस्वपित्यस्य लोकस्य

सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन

ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ॥ ९॥


          मन्त्र १०[IV.iii.10]

न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ

रथान्रथयोगान्पथः सृजते । न तत्राऽऽनन्दा मुदः प्रमुदो

भवन्त्यथाऽऽनन्दान्मुदः प्रमुदः सृजते । न तत्र वेशान्ताः

पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्तान्पुष्करिणीः स्रवन्तीः

सृजते स हि कर्ता ॥ १०॥


          मन्त्र ११[IV.iii.11]

तदेते श्लोका भवन्ति स्वप्नेन शारीरमभिप्रहत्या सुप्तः

सुप्तानभिचाकशीति । शुक्रमादाय पुनरैति स्थानꣳ हिरण्मयः

पुरुष एकहꣳसः ॥ ११॥


          मन्त्र १२[IV.iii.12]

प्राणेन रक्षन्नपरं कुलायं बहिष्कुलायादमृतश्चरित्वा स

ईयतेऽमृतो यत्रकामꣳ हिरण्मयः पुरुष एकहꣳसः ॥ १२॥


          मन्त्र १३[IV.iii.13]

स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः

सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ १३॥


          मन्त्र १४[IV.iii.14]

आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नाऽऽयतं

बोधयेदित्याहुः । दुर्भिषज्यꣳ हास्मै भवति यमेष न

प्रतिपद्यते ॥ १४॥ अथो खल्वाहुर्जागरितदेश एवास्यैष यानि ह्येव

जाग्रत् पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ।

सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ १४॥


          मन्त्र १५[IV.iii.15]

स वा एष एतस्मिन्सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं

च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव एव स

यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष

इत्येवमेवैतद् याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददाम्यत

ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १५॥


          मन्त्र १६[IV.iii.16]

स वा एष एतस्मिन्त्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च

पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव आद्रवति बुद्धान्ताय

एव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं

पुरुष इत्येवमेवैतद् याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददाम्यत

ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १६॥


          मन्त्र १७[IV.iii.17]

स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं

च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ १७॥ आद्रवति

स्वप्नान्ताय एव


          मन्त्र १८[IV.iii.18]

तद्यथा महामत्स्य उभे कूलेऽनुसञ्चरति पूर्वं चापरं चैवमेवायं

पुरुष एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च ॥


१८॥ अन्तौ अनुसञ्चरति स्वप्नान्तम् च बुद्धान्तम् च


          मन्त्र १९[IV.iii.19]

तद्यथास्मिन्नाऽकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः

सꣳहत्य पक्षौ संलयायैव ध्रियत ध्रियते एवमेवायं पुरुष

एतस्मा अन्ताय धावति यत्र सुप्तो न कं चन कामं कामयते न कं

चन स्वप्नं पश्यति ॥ १९॥ स्वप्नम् पश्यति


          मन्त्र २०[IV.iii.20]

ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताऽणिम्ना

तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा ।

नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णासथ यत्रैनं घ्नन्तीव

जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयं

पश्यति तदत्राविद्यया मन्यतेऽथ यत्र देव इव राजेवाहमेवेदꣳ

सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकाः ॥ २०॥


          मन्त्र २१[IV.iii.21]

तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयꣳ रूपम् । तद्यथा प्रियया

स्त्रिया सम्परिष्वक्तो न बाह्यं किं चन वेद नाऽऽन्तरमेवमेवायं

पुरुषः प्राज्ञेनाऽऽत्मना सम्परिष्वक्तो न बाह्यं किं चन वेद

नाऽऽन्तरम् । सम्परिष्वक्तस्न बाह्यम् किम् चन वेद न अन्तरं तद्वा

अस्यैतदाप्तकाममात्मकाममकामं रूपम् शोकान्तरम् ॥ २१॥


          मन्त्र २२[IV.iii.22]

अत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवा अदेवा वेदा अवेदा

अत्र स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चाण्डालोऽचण्डालः

पौल्कसोऽपौल्कसो श्रमणोऽश्रमण स्तापसोऽतापसोऽनन्वागतं

पुण्येनानन्वागतं पापेन अश्रमणस्तापससतापससनन्वागतस्पुण्येन

अनन्वागतस्पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति ॥ २२॥


          मन्त्र २३[IV.iii.23]

यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि

द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति

ततोऽन्यद्विभक्तं यत्पश्येत् ॥ २३॥


          मन्त्र २४[IV.iii.24]

यद्वै तन्न जिघ्रति जिघ्रन्वै तन्न जिघ्रति न हि

घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति

ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥ २४॥


          मन्त्र २५[IV.iii.25]

यद्वै तन्न रसयते रसयन्वै तन्न रसयते न हि रसयितू

रसयितेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति

ततोऽन्यद्विभक्तं यद्रसयेत् ॥ २५॥


          मन्त्र २६[IV.iii.26]

यद्वै तन्न वदति वदन्वै तन्न वदति न हि वक्तुर्वक्तेर्विपरिलोपो

विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ २६॥


          मन्त्र २७[IV.iii.27]

यद्वै तन्न शृणोति शृण्वन्वै तन्न शृणोति न हि श्रोतुः

श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति

ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ २७॥


          मन्त्र २८[IV.iii.28]

यद्वै तन्न मनुते मन्वानो वै तन्न मनुते न हि मन्तुर्मतेर्विपरिलोपो

विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं

यन्मन्वीत ॥ २८॥


          मन्त्र २९[IV.iii.29]

यद्वै तन्न स्पृशति स्पृशन्वै तन्न स्पृशति न हि स्प्रष्टुः

स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति

ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ २९॥


          मन्त्र ३०[IV.iii.30]

यद्वै तन्न विजानाति विजानन्वै तन्न विजानाति न हि

विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति

ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ३०॥


          मन्त्र ३१[IV.iii.31]

यत्र वा अन्यदिव स्यात् तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेद्

अन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीता

न्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥ ३१॥


          मन्त्र ३२[IV.iii.32]

सलिल एको द्रष्टाद्वैतो भवत्येष ब्रह्मलोकः सम्राड् इति

हैनमनुशशास याज्ञवल्क्य। एषास्य परमा गतिरेषास्य परमा सम्पद्

एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवाऽऽनन्दस्यान्यानि

भूतानि मात्रामुपजीवन्ति ॥ ३२॥


          मन्त्र ३३[IV.iii.33]

स यो मनूष्याणाꣳ राद्धः समृद्धो भवत्यन्येषामधिपतिः

सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः अन्येषां सम्पन्नतमस्स

मनुष्याणां परम आनन्दोऽथ ये शतं मनुष्याणामानन्दाः स एकः

पितृणां जितलोकानामानन्दोऽथ ये शतं पितृणां जितलोकानामानन्दाः

स एको गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्वलोक आनन्दाः

स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्तेऽथ

ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दो यश्च

श्रोत्रियोऽवृजिनोऽकामहतोऽथ ये शतमाजानदेवानामानन्दाः

स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो

अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च

श्रोत्रियोऽवृजिनोऽकामहतोऽथैष एव परम आनन्द एष ब्रह्मलोकः

सम्राड् इति होवाच याज्ञवल्क्यः । सोऽहं भगवते सहस्रं ददाम्यत

ऊर्ध्वं विमोक्षायैव ब्रूहीत्यत्र ह याज्ञवल्क्यो बिभयांचकारः

मेधावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति ॥ ३३॥


          मन्त्र ३४[IV.iii.34]

स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं

च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ३४॥


          मन्त्र ३५[IV.iii.35]

तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवायꣳ शारीर आत्मा

प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी

भवति ॥ ३५॥ उत्सर्जम् याति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३५॥


          मन्त्र ३६[IV.iii.36]

स यत्रायमणिमानं न्येति जरया वोपतपता वाऽणिमानं निगच्छति

तद्यथाऽऽम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यत एवमेवायं

पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति

प्राणायैव ॥ ३६॥ प्राणाय एव


          मन्त्र ३७[IV.iii.37]

तद्यथा राजानमायन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः

पानैरवसथैः प्रतिकल्पन्ते अयमायात्ययमागच्छतीत्येवꣳ

हैवंविदꣳ सर्वाणि भूतानि प्रतिकल्पन्त इदं

ब्रह्माऽऽयातीदमागच्छतीति ॥ ३७॥


          मन्त्र ३८[IV.iii.38]

तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः

सूतग्रामण्योऽभिसमायन्त्येवमेवेममात्मानमन्तकाले सर्वे प्राणा

अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३८॥


इति तृतीयं ब्राह्मणम् ॥

Comments

Popular posts from this blog

5.8 and all to the end of the book