3.9 अथ नवमं ब्राह्मणम् ।

 


अथ नवमं ब्राह्मणम् ।


          मन्त्र १[III.ix.1]

अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति ।

स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते

त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव

देवा याज्ञवल्क्येति । त्रयस्त्रिꣳशदित्योमिति होवाच । कत्येव देवा

याज्ञवल्क्येति । षडित्योमिति होवाच । कत्येव देवा याज्ञवल्क्येति ।

त्रय इत्योमिति होवाच । कत्येव देवा याज्ञवल्क्येत्य्द्वावित्योमिति होवाच ।

कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच । कत्येव देवा

याज्ञवल्क्येत्येक इत्योमिति होवाच । कतमे ते त्रयश्च त्री च शता

त्रयश्च त्री च सहस्रेति ॥ १ ॥


          मन्त्र २[III.ix.2]

स होवाच महिमान एवैषामेते त्रयस्त्रिꣳशत्त्वेव देवा इति कतमे

ते त्रयस्त्रिꣳशदित्यष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्यास्ते

एकत्रिꣳशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिꣳशाविति ॥ २॥


          मन्त्र ३[III.ix.3]

कतमे वसव इत्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं

चाऽऽदित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव

एतेषु हीदं वसु सर्वꣳ हितमिति तस्माद्वसव इति ॥ ३॥


          मन्त्र ४[III.ix.4]

कतमे रुद्रा इति । दशेमे पुरुषे प्राणा आत्मैकादशस्ते

यदाऽस्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति

तस्माद्रुद्रा इति ॥ ४॥


          मन्त्र ५[III.ix.5]

कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्यैत आदित्या एते

हीदꣳ सर्वमाददाना यन्ति ते यदिदꣳ सर्वमाददाना यन्ति

तस्मादादित्या इति ॥ ५॥


          मन्त्र ६[III.ix.6]

कतम इन्द्रः कतमः प्रजापतिरिति । स्तनयित्नुरेवेन्द्रो यज्ञः

प्रजापतिरिति । कतमः स्तनयित्नुरित्यशनिरिति । कतमो यज्ञ इति ।

पशव इति ॥ ६॥


          मन्त्र ७[III.ix.7]

कतमे षडित्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं

चाऽऽदित्यश्च द्यौश्चैते षड् एते हीदꣳ सर्वं षडिति ॥ ७॥


          मन्त्र ८[III.ix.8]

कतमे ते त्रयो देवा इति इम एव त्रयो लोका एषु हीमे सर्वे देवा इति ।

कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति । कतमोऽध्यर्ध

इति । योऽयं पवत इति ॥ ८॥


          मन्त्र ९[III.ix.9]

तदाहुर्यदयमेक एव एक इवैव पवते ।आथ कथमध्यर्ध इति ।

यदस्मिन्निदꣳ सर्वमध्यार्ध्नोत् तेनाध्यर्ध इति । कतम एको देव

इति । प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९॥


          मन्त्र १०[III.ix.10]

पृथिव्येव यस्याऽऽयतनमग्निर्लोको मनो ज्योतिर्यो वै तं पुरुषं

विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, परायणं स वै वेदिता स्याद्

याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं

यमात्थ य एवायꣳ शारीरः पुरुषः स एष । वदैव शाकल्य

तस्य का देवतेत्यमृतमिति होवाच ॥ १०॥


          मन्त्र ११[III.ix.11]

काम एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर्यो वै तं

पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद्

याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं

यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का

देवतेति । स्त्रिय इति होवाच ॥ ११॥


          मन्त्र १२[III.ix.12]

रूपाण्येव यस्याऽऽयतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं

विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद् याज्ञवल्क्य ।

वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं यमात्थ

य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति ।

सत्यमिति होवाच ॥ १२॥


          मन्त्र १३[III.ix.13]

आकाश एव यस्याऽऽयतनꣳ श्रोत्रं लोको मनो ज्योतिर्यो वै तं

पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद्

याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं

यमात्थ य एवायꣳ श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव

शाकल्य तस्य का देवतेति । दिश इति होवाच ॥ १३॥


          मन्त्र १४[III.ix.14]

तम एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर्यो वै तं

पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद्

याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं

यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य

का देवतेति । मृत्युरिति होवाच ॥ १४॥


          मन्त्र १५[III.ix.15]

रूपाण्येव यस्याऽऽयतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं

विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, परायणं स वै वेदिता स्याद्

याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं

यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का

देवतेत्यसुरिति होवाच ॥ १५॥


          मन्त्र १६[III.ix.16]

आप एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं

विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, परायणं स वै वेदिता स्याद्

याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं

यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति ।

वरुण इति होवाच ॥ १६॥


          मन्त्र १७[III.ix.17]

रेत एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर्यो वै तं

पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद्

याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं

यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य

का देवतेति । प्रजापतिरिति होवाच ॥ १७॥


          मन्त्र १८[III.ix.18]

शाकल्येति होवाच याज्ञवल्क्यस्त्वाꣳ स्विदिमे ब्राह्मणा

अङ्गारावक्षयणमक्रता३ इति ॥ १८॥


          मन्त्र १९[III.ix.19]

याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां

ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति । दिशो वेद सदेवाः सप्रतिष्ठा

इति । यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९॥


          मन्त्र २०[III.ix.20]

किन्देवतोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति । स

आदित्यः कस्मिन्प्रतिष्ठित इति । चक्षुषीति । कस्मिन्नु चक्षुः

प्रतिष्ठितमिति । रूपेष्विति चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु

रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच हृदयेन हि रूपाणि जानाति

हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद् याज्ञवल्क्य ॥ २०॥


          मन्त्र २१[III.ix.21]

किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः

कस्मिन्प्रतिष्ठित इति । यज्ञ इति । कस्मिन्नु यज्ञः प्रतिष्ठित इति।

दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा

ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायाꣳ ह्येव दक्षिणा

प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच

हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता

भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २१॥


          मन्त्र २२[III.ix.22]

किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति । वरुणदेवत इति । स वरुणः

कस्मिन् प्रतिष्ठित इत्यप्स्विति । कस्मिन्न्वापः प्रतिष्ठितेति रेतसीति ।

कस्मिन्नु रेतः प्रतिष्ठितेति इति हृदय इति तस्मादपि प्रतिरूपं

जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव

रेतः प्रतिष्ठितं भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २२॥


          मन्त्र २३[III.ix.23]

किन्देवतोऽस्यामुदीच्यां दिश्यसीति । सोमदेवत इति । स सोमः

कस्मिन्प्रतिष्ठित इति । दीक्षायामिति । कस्मिन्नु दीक्षा प्रतिष्ठितेति

सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा

प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच

हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं

भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २३॥


          मन्त्र २४[III.ix.24]

किन्देवतोऽस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति । सोऽग्निः

कस्मिन्प्रतिष्ठित इति वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति ।

कस्मिन्नु हृदयं प्रतिष्ठितमिति


          मन्त्र २५[III.ix.25]

अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै ।

यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयाꣳसि

वैनद्विमथ्नीरन्निति ॥ २५॥


          मन्त्र २६[III.ix.26]

कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ  स्थ इति । प्राण इति । कस्मिन्नु

प्राणः प्रतिष्ठित इत्यपान इति । कस्मिन्न्वपानः प्रतिष्ठित इति ।

व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति । कस्मिन्नूदानः

प्रतिष्ठित इति । समान इति । स एष नेति नेत्यात्माऽगृह्यो न

हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो

न व्यथते न रिष्यत्येतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा

अष्टौ पुरुषाः । स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत् तं

त्वौपनिषदं पुरुषं पृच्छामि । तं चेन्मे न विवक्ष्यसि मूर्धा

ते विपतिष्यतीति । तꣳ ह न मेने शाकल्यस्तस्य ह मूर्धा विपपात

अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ २६॥


          मन्त्र २७[III.ix.27]

अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु

सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा

वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ॥ २७॥


          मन्त्र २८[III.ix.28]

तान्हैतैः श्लोकैः पप्रच्छ यथा वृक्षो वनस्पतिस्तथैव

पुरुषोऽमृषा तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ १॥ त्वच

एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः तस्मात्तदतृण्णात्प्रैति रसो

वृक्षादिवाऽऽहतात् ॥ २॥ माꣳसान्यस्य शकराणि किनाटꣳ

स्नाव तत्स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३॥


यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः मर्त्यः

स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ४॥ रेतस इति मा

वोचत जीवतस्तत्प्रजायते धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य

सम्भवः ॥ ५॥ यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः

स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ६॥ जात एव न जायते

को न्वेनं जनयेत्पुनः विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं

तिष्ठमानस्य तद्विद इति ॥ ७॥   ॥ २८ ॥


इति नवमं ब्राह्मणम् ॥


॥ इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ॥

Comments

Popular posts from this blog

5.8 and all to the end of the book

Brihadaranyaka UpaniShad 1.1 hindi english explanation