3.8 अथ अष्टमं ब्राह्मणम् ।

 अथ अष्टमं ब्राह्मणम् ।


          मन्त्र १[III.viii.1]

अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ

प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं

कश्चिद्ब्रह्मोद्यं जेतेति । पृच्छ गार्गीति ॥ १॥

         मन्त्र २[III.viii.2]

सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र

उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते

कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् ।

तौ मे ब्रूहीति । पृच्छ गार्गीति ॥ २॥


          मन्त्र ३[III.viii.3]

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा

द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते

कस्मिꣳस्तदोतं च प्रोतं चेति ॥ ३॥


          मन्त्र ४[III.viii.4]

स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा

द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत

आकाशे तदोतं च प्रोतं चेति ॥ ४॥


          मन्त्र ५[III.viii.5]

सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै

धारयस्वेति । पृच्छ गार्गीति ॥ ५॥


          मन्त्र ६[III.viii.6]

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक् पृथिव्याः यदन्तरा

द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते

आचक्षते कस्मिꣳस्तदोतं च प्रोतं चेति ॥ ६॥


          मन्त्र ७[III.viii.7]

स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा

द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत

आकाश एव तदोतं च प्रोतं चेति । कस्मिन्नु खल्वाकाश ओतश्च

प्रोतश्चेति ॥ ७॥


          मन्त्र ८[III.viii.8]

स होवाचैतद्वै तदक्षरऽ गार्गि ब्राह्मणा

अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमो-

ऽवाय्वनाकाशमसङ्गं अचक्षुष्कमश्रोत्रमवाग्

अमनोऽतेजस्कमप्राणममुखममात्रं अनन्तरमबाह्यं न तदश्नाति

किं चन न तदश्नाति कश्चन ॥ ८॥


          मन्त्र ९[III.viii.9]

एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ

तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ

विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि

निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति

विधृतास्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या

नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां

च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः

प्रशꣳसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ९॥


          मन्त्र १०[III.viii.10]

यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिꣳल्लोके जुहोति यजते

तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति लोको भवति

यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणोऽथ य

एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मणः ॥ १०॥


          मन्त्र ११[III.viii.11]

तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृश्रुतꣳ श्रोत्त्रमतं

मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति

श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्त्रेतस्मिन्नु

खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥ ११॥


          मन्त्र १२[III.viii.12]

सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्येध्वं यदस्मान्नमस्कारेण

मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह

वाचक्नव्युपरराम ॥ १२॥


इत्यष्टमं ब्राह्मणम् ॥

Comments

Popular posts from this blog

5.8 and all to the end of the book

Brihadaranyaka UpaniShad 1.1 hindi english explanation