3.7 अथ सप्तमं ब्राह्मणम् ।
अथ सप्तमं ब्राह्मणम् ।
मन्त्र १[III.vii.1]
अथ हैनमूद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति
होवाच मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु
यज्ञमधीयानास्तस्याऽऽसीद्भार्या गन्धर्वगृहीता । तमपृच्छाम
कोऽसीति । सोऽब्रवीत् कबन्ध आथर्वण इति । सोऽब्रवीत्पतञ्चलं
काप्यं याज्ञिकाꣳश्च वेत्थ नु त्वं काप्य तत्सूत्रं येनायं
च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि
भवन्तीति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद् भगवन् वेदेति ।
सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकाꣳश्चः वेत्थ नु त्वं काप्य
तमन्तर्यामिणं य इमं च लोकं परं च लोकꣳ सर्वाणि च भूतानि
योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्चलः काप्यो नाहं तं भगवन्
वेदेति । सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकाꣳश्च यो वै तत्
काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स
देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति तेभ्योऽब्रवीत्
तदहं वेद । तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वाꣳस्तं
चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति । वेद वा अहं
गौतम तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्चिद्ब्रूयात् वेद
वेदेति । यथा वेत्थ तथा ब्रूहीति ॥ १॥
मन्त्र २[III.vii.2]
स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं
च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति ।
तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रꣳसिषतास्याङ्गानीति
वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीत्येवमेवैतद्
याज्ञवल्क्यान्तर्यामिणं ब्रूहीति ॥ २॥
मन्त्र ३[III.vii.3]
यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद
यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः ॥ ३॥
मन्त्र ४[III.vii.4]
योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुः यस्यापः शरीरं
योऽपोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ४॥
मन्त्र ५[III.vii.5]
योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं
योऽग्निमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ ५॥
मन्त्र ६[III.vii.6]
योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद
यस्यान्तरिक्षꣳ शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः ॥ ६॥
मन्त्र ७[III.vii.7]
यो वायौ तिष्ठन्वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो
वायुमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ७॥
मन्त्र ८[III.vii.8]
यो दिवि तिष्ठन्दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो
दिवमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ८॥
मन्त्र ९[III.vii.9]
य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्याऽऽदित्यः
शरीरं य आदित्यमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ९॥
मन्त्र १०[III.vii.10]
यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं
यो दिशोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १०॥
मन्त्र ११[III.vii.11]
यश्चन्द्रतारके तिष्ठꣳचन्द्रतारकादन्तरो यं चन्द्रतारकं
न वेद यस्य चन्द्रतारकꣳ शरीरं यश्चन्द्रतारकमन्तरो
यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ११॥
मन्त्र १२[III.vii.12]
य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याऽऽकाशः
शरीरं य आकाशमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १२॥
मन्त्र १३[III.vii.13]
यस्तमसि तिष्ठꣳस्तमसोऽन्तरो यं तमो न वेद यस्य तमः
शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १३॥
मन्त्र १४[III.vii.14]
यस्तेजसि तिष्ठꣳस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं
यस्तेजोऽन्तरो यमयत्य्स एष त आत्माऽन्तर्याम्यमृत इत्यधिदैवतं
अथाधिभूतम् ॥ १४॥
मन्त्र १५[III.vii.15]
यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यꣳ सर्वाणि
भूतानि न विदुर्यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो
यमयत्येष त आत्माऽन्तर्याम्यमृत इत्यधिभूतमथाध्यात्मम् ॥ १५॥
मन्त्र १६[III.vii.16]
यः प्राणे तिष्ठन्प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं
यः प्राणमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १६॥
मन्त्र १७[III.vii.17]
यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक् शरीरं यो
वाचमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १७॥
मन्त्र १८[III.vii.18]
यश्चक्षुषि तिष्ठꣳश्चक्षुषोऽन्तरो यं चक्षुर्न
वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः ॥ १८॥
मन्त्र १९[III.vii.19]
यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यꣳ श्रोत्रं न वेद
यस्य श्रोत्रꣳ शरीरं यः श्रोत्रमन्तरो यमयत्य्स एष त
आत्माऽन्तर्याम्यमृतः ॥ १९॥
मन्त्र २०[III.vii.20]
यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं
यो मनोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ २०॥
मन्त्र २१[III.vii.21]
यस्त्वचि तिष्ठꣳस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक् शरीरं
यस्त्वचमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ २१॥
मन्त्र २२[III.vii.22]
यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यꣳ विज्ञानं न वेद
यस्य विज्ञानꣳ शरीरं यो विज्ञानमन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः ॥ २२॥
मन्त्र २३[III.vii.23]
यो रेतसि तिष्ठन् रेतसोऽन्तरो यꣳ रेतो न वेद यस्य रेतः
शरीरं यो रेतोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतोऽदृष्टो
द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञतो विज्ञाता । नान्योऽतोऽस्ति
द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति
विज्ञातैष त आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तं ततो होद्दालक
आरुणिरुपरराम ॥ २३॥
इति सप्तमं ब्राह्मणम् ॥
Comments
Post a Comment