2.1 अथ द्वितीयोऽध्यायः । अथ प्रथमं ब्राह्मणम् ।

 


अथ द्वितीयोऽध्यायः ।



अथ प्रथमं ब्राह्मणम् ।


          मन्त्र १[II.i.1]

ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं

ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो

जनको जनक इति वै जना धावन्तीति ॥ १॥


          मन्त्र २[II.i.2]

स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । अतिष्ठाः सर्वेषां

भूतानां मूर्धा राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते

ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २॥


          मन्त्र ३[II.i.3]

स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । बृहन् पाण्डरवासाः

सोमो राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्तेऽहरहर्ह

सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३॥


          मन्त्र ४[II.i.4]

स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास

इति । स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा

भवति ॥ ४॥


          मन्त्र ५[II.i.5]

स होवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । पूर्णमप्रवर्तीति

वा अहमेतमुपास इति । स य एतमेवमुपास्ते पूर्यते प्रजया

पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५॥


          मन्त्र ६[II.i.6]

स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास

इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । इन्द्रो

वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते

जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६॥


          मन्त्र ७[II.i.7]

स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । विषासहिरिति

वा अहमेतमुपास इति । स य एतमेवमुपास्ते विषासहिर्ह भवति

विषासहिर्हास्य प्रजा भवति ॥ ७॥


          मन्त्र ८[II.i.8]

स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास

इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । प्रतिरूप

इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते प्रतिरूपꣳ

हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते ॥ ८॥


          मन्त्र ९[II.i.9]

स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । रोचिष्णुरिति

वा अहमेतमुपास इति । स य एतमेवमुपास्ते रोचिष्णुर्ह

भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति

सर्वाꣳस्तानतिरोचते ॥ ९॥


          मन्त्र १०[II.i.10]

स होवाच गार्ग्यो य एवायं यन्तं पश्चाछब्दोऽनूदेत्येतमेवाहं

ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । असुरिति

वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वꣳ हैवास्मिꣳल्लोक

आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥ १०॥


          मन्त्र ११[II.i.11]

स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । द्वितीयोऽनपग इति

वा अहमेतमुपास इति । स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्

गणश्छिद्यते ॥ ११॥


          मन्त्र १२[II.i.12]

स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास

इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । मृत्युरिति वा

अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वꣳ हैवास्मिꣳल्लोक

आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ १२॥


          मन्त्र १३[II.i.13]

स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति । स

होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति ।

स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति ।

स ह तूष्णीमास गार्ग्यः ॥ १३॥


          मन्त्र १४[II.i.14]

स होवाचाजातशत्रुरेतावन्नू ३ इत्येतावद्धीति । नैतावता विदितं

भवतीति । स होवाच गार्ग्य उप त्वा यानीति ॥ १४॥


          मन्त्र १५[II.i.15]

स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः

क्षत्रियमुपेयाद् ब्रह्म मे वक्ष्यतीति । व्येव त्वा

ज्ञपयिष्यामीति । तं पाणावादायोत्तस्थौ । तौ ह पुरुषꣳ

सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयांचक्रे बृहन्पाण्डरवासः

सोम राजन्निति । स नोत्तस्थौ । तं पाणिनाऽऽपेषं बोधयांचकार ।

स होत्तस्थौ ॥ १५॥


          मन्त्र १६[II.i.16]

स होवाचाजातशत्रुर्यत्रैष एतत् सुप्तोऽभूद् य एष विज्ञानमयः

पुरुषः क्वैष तदाऽभूत् कुत एतदागादिति । तदु ह न मेने गार्ग्यः ॥ १६॥


          मन्त्र १७[II.i.17]

स होवाचाजातशत्रुर्यत्रैष एतत्।सुप्तोऽभूद् य एष विज्ञानमयः

पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय

आकाशस्तस्मिञ्छेते । तानि यदा गृह्णाति अथ हैतत्पुरुषः

स्वपिति नाम । तद्गृहीत एव प्राणो भवति गृहीता वाग् गृहीतं

चक्षुर्गृहीतꣳ श्रोत्रं गृहीतं मनः ॥ १७॥


          मन्त्र १८[II.i.18]

स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो

भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति । स यथा

महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष

एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८॥ गृहीत्वा

स्वे शरीरे यथाकामम् परिवर्तते


          मन्त्र १९[II.i.19]

अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो

द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते  । ताभिः

प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा

महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९॥


          मन्त्र २०[II.i.20]

स यथोर्णभिस्तन्तुनोच्चरेद् यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा

व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे

देवाः सर्वाणि भूतानि व्युच्चरन्ति । सर्वे ॥।  व्युच्चरन्ति

तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २०॥


इति प्रथमं ब्राह्मणम् ॥

Post a Comment

Previous Post Next Post