अथ द्वितीयोऽध्यायः ।
अथ प्रथमं ब्राह्मणम् ।
मन्त्र १[II.i.1]
ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं
ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो
जनको जनक इति वै जना धावन्तीति ॥ १॥
मन्त्र २[II.i.2]
स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । अतिष्ठाः सर्वेषां
भूतानां मूर्धा राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते
ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २॥
मन्त्र ३[II.i.3]
स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । बृहन् पाण्डरवासाः
सोमो राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्तेऽहरहर्ह
सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३॥
मन्त्र ४[II.i.4]
स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास
इति । स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा
भवति ॥ ४॥
मन्त्र ५[II.i.5]
स होवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । पूर्णमप्रवर्तीति
वा अहमेतमुपास इति । स य एतमेवमुपास्ते पूर्यते प्रजया
पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५॥
मन्त्र ६[II.i.6]
स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास
इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । इन्द्रो
वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते
जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६॥
मन्त्र ७[II.i.7]
स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । विषासहिरिति
वा अहमेतमुपास इति । स य एतमेवमुपास्ते विषासहिर्ह भवति
विषासहिर्हास्य प्रजा भवति ॥ ७॥
मन्त्र ८[II.i.8]
स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास
इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । प्रतिरूप
इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते प्रतिरूपꣳ
हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते ॥ ८॥
मन्त्र ९[II.i.9]
स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । रोचिष्णुरिति
वा अहमेतमुपास इति । स य एतमेवमुपास्ते रोचिष्णुर्ह
भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति
सर्वाꣳस्तानतिरोचते ॥ ९॥
मन्त्र १०[II.i.10]
स होवाच गार्ग्यो य एवायं यन्तं पश्चाछब्दोऽनूदेत्येतमेवाहं
ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । असुरिति
वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वꣳ हैवास्मिꣳल्लोक
आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥ १०॥
मन्त्र ११[II.i.11]
स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । द्वितीयोऽनपग इति
वा अहमेतमुपास इति । स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्
गणश्छिद्यते ॥ ११॥
मन्त्र १२[II.i.12]
स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास
इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । मृत्युरिति वा
अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वꣳ हैवास्मिꣳल्लोक
आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ १२॥
मन्त्र १३[II.i.13]
स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति । स
होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति ।
स ह तूष्णीमास गार्ग्यः ॥ १३॥
मन्त्र १४[II.i.14]
स होवाचाजातशत्रुरेतावन्नू ३ इत्येतावद्धीति । नैतावता विदितं
भवतीति । स होवाच गार्ग्य उप त्वा यानीति ॥ १४॥
मन्त्र १५[II.i.15]
स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः
क्षत्रियमुपेयाद् ब्रह्म मे वक्ष्यतीति । व्येव त्वा
ज्ञपयिष्यामीति । तं पाणावादायोत्तस्थौ । तौ ह पुरुषꣳ
सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयांचक्रे बृहन्पाण्डरवासः
सोम राजन्निति । स नोत्तस्थौ । तं पाणिनाऽऽपेषं बोधयांचकार ।
स होत्तस्थौ ॥ १५॥
मन्त्र १६[II.i.16]
स होवाचाजातशत्रुर्यत्रैष एतत् सुप्तोऽभूद् य एष विज्ञानमयः
पुरुषः क्वैष तदाऽभूत् कुत एतदागादिति । तदु ह न मेने गार्ग्यः ॥ १६॥
मन्त्र १७[II.i.17]
स होवाचाजातशत्रुर्यत्रैष एतत्।सुप्तोऽभूद् य एष विज्ञानमयः
पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय
आकाशस्तस्मिञ्छेते । तानि यदा गृह्णाति अथ हैतत्पुरुषः
स्वपिति नाम । तद्गृहीत एव प्राणो भवति गृहीता वाग् गृहीतं
चक्षुर्गृहीतꣳ श्रोत्रं गृहीतं मनः ॥ १७॥
मन्त्र १८[II.i.18]
स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो
भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति । स यथा
महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष
एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८॥ गृहीत्वा
स्वे शरीरे यथाकामम् परिवर्तते
मन्त्र १९[II.i.19]
अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो
द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः
प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा
महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९॥
मन्त्र २०[II.i.20]
स यथोर्णभिस्तन्तुनोच्चरेद् यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा
व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे
देवाः सर्वाणि भूतानि व्युच्चरन्ति । सर्वे ॥। व्युच्चरन्ति
तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २०॥
इति प्रथमं ब्राह्मणम् ॥