5.8 and all to the end of the book

 


अथ अथाष्टमं ब्राह्मणम् ।


          मन्त्र १[V.viii.1]

वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो

हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च

वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरः । तस्याः प्राण

ऋषभो मनो वत्सः ॥ १॥


इत्यष्टमं ब्राह्मणम् ॥


अथ नवमं ब्राह्मणम् । 


          मन्त्र १[V.ix.1]

अयमाग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते

यदिदमद्यते । तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति ।

स यदोत्क्रमिष्यन्भवति नैनं घोषꣳ शृणोति ॥ १॥


इति नवमं ब्राह्मणम् ॥


अथ दशमं ब्राह्मणम् ।


          मन्त्र १[V.x.1]

यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र

विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते । स

आदित्यमागच्छति तस्मै स तत्र विजिहीते यथालम्बरस्य खं तेन स

ऊर्ध्व आक्रमते । स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा

दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते । स लोकमागच्छत्यशोकमहिमं

तस्मिन्वसति शाश्वतीः समाः ॥ १॥


इति दशमं ब्राह्मणम् ॥


एकादशं ब्राह्मणम् ।


          मन्त्र १[V.xi.1]

एतद्वै परमं तपो यद्व्याहितस्तप्यते परमꣳ हैव लोकं

जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यꣳ हरन्ति

परमꣳ हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं

प्रेतमग्नावभ्यादधति परमꣳ हैव लोकं जयति य एवं वेद ॥ ११॥


इति एकादशं ब्राह्मणम् ॥


अथ द्वादशं ब्राह्मणम् ।    [V.xii.1]


अन्नं ब्रह्मेत्येक आहुस्तन्न तथा

पूयति वा अन्नमृते प्राणात्

प्राणो ब्रह्मेत्येक आहुस्तन्न तथा

शुष्यति वै प्राण ऋतेऽन्नाद्

एते ह त्वेव देवते

एकधाभूयं भूत्वा

परमतां गच्छतस्तद्ध स्माऽऽह प्रातृदः पितरं

किꣳ स्विदेवैवं विदुषे साधु कुर्यां

किमेवास्मा असाधु कुर्यामिति ।

स ह स्माह पाणिना

मा

प्रातृद

कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति ।

तस्मा उ हैतदुवाच

वीत्यन्नं वै वि

अन्ने हीमानि सर्वाणि भूतानि विष्टानि ।

रमिति

प्राणो वै रं

प्राणे हीमानि सर्वाणि भूतानि रमन्ते ।

सर्वाणि ह वा अस्मिन् भूतानि विशन्ति

सर्वाणि भूतानि रमन्ते

य एवं वेद ॥ १२॥


इति द्वादशं ब्राह्मणम् ॥


अथ त्रयोदशं ब्राह्मणम् ।


          मन्त्र १[V.xiii.1]

उक्थं प्राणो वा उक्थं प्राणो हीदꣳ सर्वमुत्थापयत्युद्धास्मा

धस्मादुक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यꣳ सलोकतां जयति य

एवं वेद ॥ १॥


          मन्त्र २[V.xiii.2]

यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते

हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यꣳ सलोकतां

जयति य एवं वेद ॥ २॥


          मन्त्र ३[V.xiii.3]

साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि

हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्यꣳ

सलोकतां जयति य एवं वेद ॥ ३॥


          मन्त्र ४[V.xiii.4]

क्षत्रं प्राणो वै क्षत्रं प्राणो हि वै क्षत्रं त्रायते हैनं प्राणः

क्षणितोः । प्र क्षत्रमत्रमप्नोति क्षत्रस्य सायुज्यꣳ सलोकतां

जयति य एवं वेद ॥ ४॥


इति त्रयोदशं ब्राह्मणम् ॥


अथ चतुर्दशं ब्राह्मणम् ।


          मन्त्र १[V.xiv.1]

भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरꣳ ह वा एकं

गायत्र्यै पदमेतदु हैवास्या एतत् स यावदेषु त्रिषु लोकेषु तावद्ध

जयति योऽस्या एतदेवं पदं वेद ॥ १॥


          मन्त्र २[V.xiv.2]

ऋचो यजूꣳषि सामानीत्यष्टावक्षराण्यष्टाक्षरꣳ ह वा एकं

गायत्र्यै पदम् । एतदु हैवास्या एतत् स यावतीयं त्रयी विद्या तावद्ध

जयति योऽस्या एतदेवं पदं वेद ॥ २॥


          मन्त्र ३[V.xiv.3]

प्राणोऽपानो व्यान इत्यष्टावक्षराणि अष्टाक्षरꣳ ह वा एकं गायत्र्यै

पदमेतदु हैवास्या एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या

एतदेवं पदं वेद अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य

एष तपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश

इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपत्येवꣳ

हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ३॥


          मन्त्र ४[V.xiv.4]

सैषा गायत्र्येतस्मिꣳस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता

तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि

वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहम् अदर्शं

अहमश्रौषमिति य एव एवं ब्रूयादहम् अदर्शमिति तस्मा एव

श्रद्दध्याम । तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं

तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलꣳ सत्यादोगीय इत्येवं वेषा

गायत्र्यध्यात्मं प्रतिष्ठिता । सा हैषा गयाꣳस्तत्रे प्राणा वै

गयास्तत्प्राणाꣳस्तत्रे तद्यद्गयाꣳस्तत्रे तस्माद् गायत्री नाम ।

स यामेवामूꣳ सावित्रीमन्वाहैषैव सा । स यस्मा अन्वाह तस्य

प्राणाꣳस्त्रायते ॥ ४॥


          मन्त्र ५[V.xiv.5]

ताꣳ हैतामेके सावित्रीमनुष्टुभमन्वाहुर्वागनुष्टुब् एतद्वाचमनुब्रूम

इति । न तथा कुर्याद् गायत्रीमेवानुब्रूयाद् । यदि ह वा अप्येवंविद्बह्विव

प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ ५॥


          मन्त्र ६[V.xiv.6]

स य इमाꣳस्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं

पदमाप्नुयाद् । अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्

सोऽऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि

यस्तावत्प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या

एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केन

चनाप्यं कुत उ एतावत्प्रतिगृह्णीयात् ॥ ६॥


          मन्त्र ७[V.xiv.7]

तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न

हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा

प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स

कामः समृद्ध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति वा ॥ ७॥


          मन्त्र ८[V.xiv.8]

एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो

तद्गायत्रीविदब्रूथा अथ कथꣳ हस्ती भूतो वहसीति । मुखꣳ

ह्यस्याः सम्राण् न विदां चकारेति होवाच । तस्या अग्निरेव मुखं

यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवꣳ

हैवैवंविद् यद्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः

पूतोऽजरोऽमृतः सम्भवति ॥ ८॥


इति चतुर्दशं ब्राह्मणम् ॥


अथ पञ्चदशं ब्राह्मणम् ।


          मन्त्र १[V.xv.1]

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्न् अपावृणु

सत्यधर्माय दृष्टये । पूषन्न् एकर्षे यम सूर्य प्राजापत्य

व्यूह रश्मीन् । समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि ।

योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतमथेदं

भस्मान्तꣳ शरीरम् । ॐ३ क्रतो स्मर कृतꣳ स्मर क्रतो स्मर

कृतꣳ स्मर । अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि

विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १॥


इति पञ्चदशं ब्राह्मणम् ॥


॥ इति बृहदारण्यकोपनिषदि पञ्चमोऽध्यायः ॥


अथ षष्ठोऽध्यायः ।



अथ प्रथमं ब्राह्मणम् ॥


          मन्त्र १[VI.i.1]

ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च

श्रेष्ठश्च स्वानां भवति । प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ।

ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बुभूषति य

एवं वेद ॥ १॥


          मन्त्र २[VI.i.2]

यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । वाग्वै वसिष्ठा ।

वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति , य एवं वेद ॥ २॥


          मन्त्र ३[VI.i.3]

यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे ।

चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति ।

प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद ॥ ३॥


          मन्त्र ४[VI.i.4]

यो ह वै सम्पदं वेद सꣳ हास्मै पद्यते यं कामं कामयते ।

श्रोत्रं वै सम्पच्छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः । सꣳ

हास्मै पद्यते यं कामं कामयते य एवं वेद ॥ ४॥


          मन्त्र ५[VI.i.5]

यो ह वा आयतनं वेदाऽऽयतनꣳ स्वानां भवति आयतनं जनानाम् ।

मनो वा आयतनमायतनꣳ स्वानां भवत्यायतनं जनानां य एवं

वेद ॥ ५॥


          मन्त्र ६[VI.i.6]

यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः ।

प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥ ६॥


          मन्त्र ७[VI.i.7]

ते हेमे प्राणा अहꣳश्रेयसे विवदमाना ब्रह्म जग्मुस्तद्धोचुः को नो

वसिष्ठ इति । तद्धोवाच यस्मिन्व उत्क्रान्त इदꣳ शरीरं पापीयो

मन्यते स वो वसिष्ठ इति ॥ ७॥


          मन्त्र ८[VI.i.8]

वाग्घोच्चक्राम । सा संवत्सरं प्रोष्या।आ।आगत्योवाच कथमशकत

मदृते जीवितुमिति । ते होचुर्यथाऽकला अवदन्तो वाचा प्राणन्तः

प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वाꣳसो मनसा

प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह वाक् ॥ ८॥


          मन्त्र ९[VI.i.9]

चक्षुर्होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत

मदृते जीवितुमिति । ते होचुर्यथान्धा अपश्यन्तश्चक्षुषा

प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वाꣳसो

मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह चक्षुः ॥ ९॥


          मन्त्र १०[VI.i.10]

श्रोत्रꣳ होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच

कथमशकत मदृते जीवितुमिति । ते होचुर्यथा बधिरा अशृण्वन्तः

श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा

विद्वाꣳसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह

श्रोत्रम् ॥ १०॥


          मन्त्र ११[VI.i.11]

मनो होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत

मदृते जीवितुमिति । ते होचुर्यथा मुग्धा अविद्वाꣳसो मनसा

प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः

श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह मनः ॥ ११॥


          मन्त्र १२[VI.i.12]

रेतो होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत

मदृते जीवितुमिति । ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः

प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण

विद्वाꣳसो मनसैवमजीविष्मेति । प्रविवेश ह रेतः ॥ १२॥


          मन्त्र १३[VI.i.13]

अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः

पड्वीशशङ्कून्संवृहेदेवꣳ हैवेमान्प्राणान्संववर्ह । ते होचुर्मा

भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति । तस्यो मे बलिं

कुरुतेति तथेति ॥ १३॥


          मन्त्र १४[VI.i.14]

सा ह वागुवाच यद्वा अहं वसिष्ठाऽस्मि त्वं तद्वसिष्ठोऽसीति ।

यद् वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा

अहꣳ सम्पदस्मि त्वं तत् सम्पदसीति श्रोत्रम् । यद् वा

अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि

त्वं तत् प्रजातिरसीति रेतस्तस्यो मे किमन्नं किं वास इति । यदिदं

किञ्चाऽऽश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमापो

वास इति । न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं

य एवमेतदनस्यान्नं वेद । तद् विद्वाꣳसः श्रोत्रिया अशिष्यन्त

आचामन्त्यशित्वाऽऽचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४॥


इति प्रथमं ब्राह्मणम् ॥


अथ द्वितीयं ब्राह्मणम् ।


          मन्त्र १[VI.ii.1]

श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम । स आजगाम

जैवलिं प्रवाहणं परिचारयमाणम् । तमुदीक्ष्याभ्युवाद कुमारा३ इति ।

स भोः ३ इति प्रतिशुश्राव अनुशिष्टोऽन्वसि पित्रेत्योमिति होवाच ॥ १॥


          मन्त्र २[VI.ii.2]

वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । नेति होवाच ।

वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति । नेति हैवोवाच । वेत्थो

यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रयद्भिर्न सम्पूर्यता३ इति

नेति हैवोवाच । वेत्थो यतिथ्यामाहुत्याꣳ हुतायामापः पुरुषवाचो

भूत्वा समुत्थाय वदन्ती३ इति । नेति हैवोवाच । वेत्थो देवयानस्य वा

पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं

प्रतिपद्यन्ते पितृयाणं वाऽपि हि न ऋषेर्वचः श्रुतं द्वे

सृती अशृणवं पितृणामहं देवानामुत मर्त्यानां ताभ्यामिदं

विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति । नाहमत एकं चन

वेदेति होवाच ॥ २॥


          मन्त्र ३[VI.ii.3]

अथैनं वसत्योपमन्त्रयां चक्रेऽनादृत्य वसतिं कुमारः

प्रदुद्राव । स आजगाम पितरं तꣳ होवाचेति वाव किल नो

भवान्पुराऽनुशिष्टानवोच इति । कथꣳ, सुमेध इति । पञ्च

मा प्रश्नान्राजन्यबन्धुरप्राक्षीत् ततो नैकञ्चन वेदेति । कतमे त

इति इम इति ह प्रतीकान्युदाजहार ॥ ३॥


          मन्त्र ४[VI.ii.4]

स होवाच तथा नस्त्वं तात जानीथा यथा यदहं किञ्च वेद

सर्वमहं तत्तुभमवोचम् । प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं

वत्स्याव इति । भवानेव गच्छत्विति । स आजगाम गौतमो यत्र

प्रवाहणस्य जैवलेरास । तस्मा आसनमाहृत्योदकमहारयां चकाराथ

हास्मा अर्घ्यं चकार । तꣳ होवाच वरं भगवते गौतमाय दद्म

इति ॥ ४॥


          मन्त्र ५[VI.ii.5]

स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते

वाचमभाषथास्तां मे ब्रूहीति ॥ ५॥


          मन्त्र ६[VI.ii.6]

स होवाच दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति ॥ ६॥


          मन्त्र ७[VI.ii.7]

स होवाच विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां

परिधानस्य मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति ।

स वै गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव

पूर्व उपयन्ति । स होपायनकीर्त्योवास ॥ ७॥


          मन्त्र ८[VI.ii.8]

स होवाच तथा नस्त्वं गौतम माऽपराधास्तव च पितामहा यथेयं

विद्येतः पूर्वं न कस्मिꣳश्चन ब्राह्मण उवास तां त्वहं तुभ्यं

वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८॥


          मन्त्र ९[VI.ii.9]

असौ वै लोकोऽग्निर्गौतम । तस्याऽऽदित्य एव समिद् रश्मयो धूमो

ऽहरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ

देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा सम्भवति ॥ ९॥


          मन्त्र १०[VI.ii.10]

पर्जन्यो वा अग्निर्गौतम । तस्य संवत्सर एव समिदभ्राणि धूमो

विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ

देवाः सोमꣳ राजानं जुह्वति तस्या आहुत्यै वृष्टिः सम्भवति ॥ १०॥


          मन्त्र ११[VI.ii.11]

अयं वै लोकोऽग्निर्गौतम । तस्य पृथिव्येव समिद्

अग्निर्धूमो रात्रिरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि

विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या

अन्नꣳ सम्भवति ॥ ११॥


          मन्त्र १२[VI.ii.12]

पुरुषो वा अग्निर्गौतम । तस्य व्यात्तमेव समित् प्राणो धूमो

वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ

देवा अन्नं जुह्वति तस्या आहुत्यै रेतः सम्भवति ॥ १२॥


          मन्त्र १३[VI.ii.13]

योषा वा आग्निर्गौतम । तस्या उपस्थ एव समिल्लोमानि

धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा

विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः

सम्भवति । स जीवति यावज्जीवत्यथ यदा म्रियते  । १३॥


          मन्त्र १४[VI.ii.14]

अथैनमग्नये हरन्ति । तस्याग्निरेवाग्निर्भवति समित्समिद्

धूमो धूमोऽर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा

विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुत्यै

पुरुषो भास्वरवर्णः सम्भवति ॥ १४॥


          मन्त्र १५[VI.ii.15]

ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धाꣳ सत्यमुपासते

तेऽर्चिरभिसम्भवन्त्यर्चिषोऽहोऽह्न आपूर्यमाणपक्षं

आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं

देवलोकादादित्यमादित्याद्वैद्युतं तान्वैद्युतान्पुरुषो मानस एत्य

ब्रह्मलोकान् गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति ।

तेषां न पुनरावृत्तिः ।


          मन्त्र १६[VI.ii.16]

अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते

धूममभिसम्भवन्ति धूमाद्रात्रिꣳ, रात्रेरपक्षीयमाणपक्षं

अपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः

पितृलोकं पितृलोकाच्चन्द्रं ते चन्द्रं प्राप्यान्नं

भवन्ति ताꣳस्तत्र देवा यथा सोमꣳ राजानमाप्यायस्व

अपक्षीयस्वेत्येवमेनाꣳस्तत्र भक्षयन्ति । तेषां यदा

तत्पर्यवैत्यथेममेवाऽऽकाशमभिनिष्पद्यन्ते आकाशाद्वायुं

वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति ते

पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ते लोकान्प्रत्युथायिनस्त

एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा

यदिदं दन्दशूकम् ॥ १६॥


इति द्वितीयं ब्राह्मणम् ॥


अथ तृतीयं ब्राह्मणम् ।


          मन्त्र १[VI.iii.1]

स यः कामयते महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य

पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कꣳसे चमसे वा

सर्वौषधं फलानीति सम्भृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय

परिस्तीर्याऽऽवृताऽऽज्यꣳ सꣳस्कृत्य पुꣳसा नक्षत्रेण

मन्थꣳ सन्नीय जुहोति । यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो

घ्नन्ति पुरुषस्य कामान् तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः

सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी

इति तां त्वा घृतस्य धारया यजे सꣳराधनीमहꣳ । स्वाहा ॥ १॥


          मन्त्र २[VI.iii.2]

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे

सꣳस्रवमवनयति । प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा

मन्थे सꣳस्रवमवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ

हुत्वा मन्थे सꣳस्रवमवनयति । चक्षुषे स्वाहा सम्पदे स्वाहेति

अग्नौ हुत्वा मन्थे सꣳस्रवमवनयति । श्रोत्राय स्वाहाऽऽयतनाय

स्वाहेत्यग्नौ हुत्वा मन्थे सꣳस्रवमवनयति । मनसे स्वाहा प्रजात्यै

स्वाहेत्यग्नौ हुत्वा मन्थे सꣳस्रवमवनयति । रेतसे स्वाहेति अग्नौ

हुत्वा मन्थे सꣳस्रवमवनयति ॥ २॥


          मन्त्र ३[VI.iii.3]

अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे सꣳस्रवमवनयति । सोमाय

स्वाहेत्यग्नौ हुत्वा मन्थे सꣳस्रवमवनयति । भूः स्वाहेत्यग्नौ

हुत्वा मन्थे सꣳस्रवमवनयति । भुवः स्वाहेत्यग्नौ हुत्वा

मन्थे सꣳस्रवमवनयति । स्वः स्वाहेत्यग्नौ हुत्वा मन्थे

सꣳस्रवमवनयति । भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा

मन्थे सꣳस्रवमवनयति । ब्रह्मणे स्वाहेत्यग्नौ हुत्वा

मन्थे सꣳस्रवमवनयति । क्षत्राय स्वाहेत्यग्नौ हुत्वा

मन्थे सꣳस्रवमवनयति । भूताय स्वाहेत्यग्नौ हुत्वा मन्थे

सꣳस्रवमवनयति । भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे

सꣳस्रवमवनयति । विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे

सꣳस्रवमवनयति । सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे

सꣳस्रवमवनयति । प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे

सꣳस्रवमवनयति ॥ ३॥


          मन्त्र ४[VI.iii.4]

अथैनमभिमृशति भ्रमदसि ज्वलदसि

पूर्णमसि प्रस्तब्धमस्येकसभमसि हिङ्कृतमसि

हिङ्क्रियमाणमस्युद्गीथमस्युद्गीयमानमसि श्रावितमसि

प्रत्याश्रावितमस्यर्द्रे सन्दीप्तमसि विभूरसि प्रभूरस्यन्नमसि

ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४॥


          मन्त्र ५[VI.iii.5]

अथैनमुद्यच्छत्यमꣳस्यामꣳ हि ते महि । स हि

राजेशानोऽधिपतिः स माꣳ राजेशनोऽधिपतिं करोत्विति ॥ ५॥


          मन्त्र ६[VI.iii.6]

अथैनमाचामति तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते मधु

क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो

देवस्य धीमहि मधु नक्तमुतोषसो मधुमत्पार्थिवꣳ रजः । मधु

द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो

वनस्पतिर्मधुमाꣳ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । स्वः

स्वाहेति । सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेदꣳ

सर्वं भूयासम् । भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य

जघनेनाग्निं प्राक्षिराः संविशति । प्रातरादित्यमुपतिष्ठते

दिशामेकपुण्डरीकमसि अहं मनुष्याणामेकपुण्डरीकं भूयासमिति ।

यथेतमेत्य जघनेनाग्निमासीनो वꣳशं जपति ॥ ६॥


          मन्त्र ७[VI.iii.7]

तꣳ हैतमूद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन

उक्त्वोवाचापि य एनꣳ शुष्के स्थाणौ निषिञ्चेज् शुष्के स्थाणौ

निषिञ्चेत् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ७॥


          मन्त्र ८[VI.iii.8]

एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन

उक्त्वोवाचापि य एनꣳ शुष्के स्थाणौ निषिञ्चेज् स्थाणौ निषिञ्चेत्

जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ८॥


          मन्त्र ९[VI.iii.9]

एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन

उक्त्वोवाचापि य एनꣳ शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः

प्ररोहेयुः पलाशानीति ॥ ९॥


          मन्त्र १०[VI.iii.10]

एतमु हैव चूलो भागवित्तिर्जानकय आयस्थूणायान्तेवासिन उक्त्वोवाचापि य

एनꣳ शुष्के स्थाणौ निषिञ्चेज् यसेनम् शुष्के स्थाणौ निषिञ्चेत्

जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ १०॥


          मन्त्र ११[VI.iii.11]

एतमु हैव जानकिरयस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि

य एनꣳ शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः

पलाशानीति ॥ ११॥


          मन्त्र १२[VI.iii.12]

एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एनꣳ

शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ।

तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् ॥ १२॥


          मन्त्र १३[VI.iii.13]

चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर

इध्म औदुम्बर्या उपमन्थन्यौ । दश ग्राम्याणि धान्यानि भवन्ति

व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च

खलकुलाश्च तान्पिष्टान्दधनि मधुनि घृत उपसिञ्चत्याज्यस्य

जुहोति ॥ १३॥


इति तृतीयं ब्राह्मणम् ॥


अथ चतुर्थं ब्राह्मणम् ।


          मन्त्र १[VI.iv.1]

एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय

ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १॥


          मन्त्र २[VI.iv.2]

स ह प्रजापतिरीक्षांचक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स

स्त्रियꣳ ससृजे । ताꣳ सृष्ट्वाऽध उपास्त तस्मात्स्त्रियमध

उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्

तेनैनामभ्यसृजत् ॥ २॥


          मन्त्र ३[VI.iv.3]

तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतस्तौ

मुष्कौ । स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य

लोको भवति य एवं विद्वानधोपहासं चरत्यासाꣳ स्त्रीणाꣳ

सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्याऽस्य स्त्रियः

सुकृतं वृञ्जते ॥ ३॥


          मन्त्र ४[VI.iv.4]

एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको

मौद्गल्य आहैतद्ध स्म वै तद्विद्वान् कुमारहारित आह एतद् ध स्म

वै तद् विद्वान् कुमारहारितसाह बहवो मर्या ब्राह्मणायना निरिन्द्रिया

विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वाꣳसोऽधोपहासं चरन्तीति ।

बहु वा इदꣳ सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४॥


          मन्त्र ५[VI.iv.5]

तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्

यदोषधीरप्यसरद् यदपः । इदमहं तद्रेत आददे

पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः । पुनरग्निर्धिष्ण्या

यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा

भ्रुवौ वा निमृज्यात् ॥ ५॥


          मन्त्र ६[VI.iv.6]

अथ यद्युदक आत्मानं पश्येत् तदभिमन्त्रयेत मयि तेज

इन्द्रियं यशो द्रविणꣳ सुकृतमिति । श्रीर्ह वा एषा स्त्रीणां

यन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६॥


          मन्त्र ७[VI.iv.7]

सा चेदस्मै न दद्यात् काममेनामवक्रिणीयात् सा चेदस्मै नैव दद्यात्

काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश

आदद इत्ययशा एव भवति ॥ ७॥


          मन्त्र ८[VI.iv.8]

सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति यशस्विनावेव

भवतः ॥ ८॥


          मन्त्र ९[VI.iv.9]

स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखꣳ

सन्धायोपस्थमस्या अभिमृश्य जपेदङ्गादङ्गात्सम्भवसि

हृदयादधिजायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धमिव

मादयेमाममूं मयीति ॥ ९॥


          मन्त्र १०[VI.iv.10]

अथ यामिच्छेन् न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन

मुखꣳ सन्धायाभिप्राण्यापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता

एव भवति ॥ १०॥


          मन्त्र ११[VI.iv.11]

अथ यामिच्छेद् दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखꣳ

सन्धायापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव

भवति ॥ ११॥


          मन्त्र १२[VI.iv.12]

अथ यस्य जायायै जारः स्यात् तं चेद् द्विष्यादामपात्रेऽग्निमुपसमाधाय

प्रतिलोमꣳ शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः

प्रतिलोमाः सर्पिषाऽक्ता जुहुयान् मम समिद्धेऽहौषीः प्राणापानौ

त आददेऽसाविति । मम समिद्धेऽहौषीः पुत्रपशूꣳस्त आददे

ऽसाविति । मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति ।

मम समिद्धेऽहौषीराशापराकाशौ त आददेऽसाविति । स वा एष

निरिन्द्रियो विसुकृतोऽस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणः शपति ।

तस्मादेवंवित्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो

भवति ॥ १२॥


          मन्त्र १३[VI.iv.13]

अथ यस्य जायामार्तवं विन्देत् त्र्यहं कꣳसे न पिबेदहतवासा

नैनां वृषलो न वृषल्युपहन्यात् अपहन्यात् त्रिरात्रान्त आप्लुत्य

व्रीहीनवघातयेत् ॥ १३॥


          मन्त्र १४[VI.iv.14]

स य इच्छेत् पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति

क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १४॥


          मन्त्र १५[VI.iv.15]

अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत

सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ

जनयितवै ॥ १५॥


          मन्त्र १६[VI.iv.16]

अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन्वेदाननुब्रुवीत

सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ

जनयितवै ॥ १६॥


          मन्त्र १७[VI.iv.17]

अथ य इच्छेद् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं

पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १७॥


          मन्त्र १८[VI.iv.18]

अथ य इच्छेत् पुत्रो मे पण्डितो विगीतः समितिङ्गमः शुश्रूषितां

वाचं भाषिता जायेत सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति

माꣳसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ।

औक्षेण वाऽऽर्षभेण वा ॥ १८॥


          मन्त्र १९[VI.iv.19]

अथाभिप्रातरेव स्थालीपाकावृताऽऽज्यं चेष्टित्वा

स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहाऽनुमतये स्वाहा देवाय सवित्रे

सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति । प्राश्येतरस्याः

प्रयच्छति । प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां

त्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्याꣳ सं

जायां पत्या सहेति ॥ १९॥


          मन्त्र २०[VI.iv.20]

अथैनामभिपद्यतेऽमोऽहमस्मि सा त्वꣳ सा त्वमस्यमोऽहꣳ

सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वम् । तावेहि सꣳरभावहै

सह रेतो दधावहै पुꣳसे पुत्राय वित्तय इति ॥ २०॥


          मन्त्र २१[VI.iv.21]

अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति । तस्यामर्थं

निष्ठाय मुखेन मुखꣳ सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि

विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिꣳशतु आसिञ्चतु

प्रजापतिर्धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि

पृथुष्टुके । गर्भं ते आश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१॥


          मन्त्र २२[VI.iv.22]

हिरण्मयी अरणी याभ्यां निर्मन्थतामाश्विनौ तं ते गर्भꣳ हवामहे

दशमे मासि सूतये । यथाऽग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण

गर्भिणी वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ २२॥


          मन्त्र २३[VI.iv.23]

सोष्यन्तीमद्भिरभ्युक्षति यथा वायुः पुष्करिणीꣳ समिङ्गयति

सर्वतः । एवा ते गर्भ एजतु सहावैतु जरायुणा । इन्द्रस्यायं व्रजः

कृतः सार्गलः सपरिश्रयः । तमीन्द्र निर्जहि गर्भेण सावराꣳ

सहेति ॥ २३॥


          मन्त्र २४[VI.iv.24]

जातेऽग्निमुपसमाधायाङ्क आधाय कꣳसे पृषदाज्यꣳ सन्नीय

पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुष्यासमेधमानः स्वे

गृहे । अस्योपसन्द्यां मा च्छैत्सीत् प्रजया च पशुभिश्च स्वाहा ।

मयि प्राणाꣳस्त्वयि मनसा जुहोमि स्वाहा । यत् कर्मणाऽत्यरीरिचं

यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान् स्विष्टꣳ सुहुतं

करोतु नः स्वाहेति ॥ २४॥


          मन्त्र २५[VI.iv.25]

अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथ दधि मधु

घृतꣳ सन्नीयानन्तर्हितेन जातरूपेण प्राशयति । भूस्ते दधामि

भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ २५॥


          मन्त्र २६[VI.iv.26]

अथास्य नाम करोति वेदोऽसीति । तदस्यैतद्गुह्यमेव नाम भवति ॥ २६॥


          मन्त्र २७[VI.iv.27]

अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो

मयोभूर्यो रत्नधा वसुविद्यः सुदत्रो येन विश्वा पुष्यसि वार्याणि

सरस्वति तमिह धातवे करिति ॥ २७॥


          मन्त्र २८[VI.iv.28]

अथास्य मातरमभिमन्त्रयते । इलाऽसि मैत्रावरुणी वीरे वीरमजीजनत् ।

सा त्वं वीरवती भव याऽस्मान्वीरवतोऽकरदिति । तं वा एतमाहुरतिपिता

बताभूरतिपितामहो बताभूः । परमां बत काष्ठां प्रापयच्छ्रिया

यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८॥


इति चतुर्थं ब्राह्मणम् ॥


अथ पञ्चमं ब्राह्मणम् ।


          मन्त्र १[VI.v.1]

अथ वꣳशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात् कात्यायनीपुत्रो

गौतमीपुत्राद् गौतमीपुत्रो भारद्वाजीपुत्राद् भारद्वाजीपुत्रः

पाराशरीपुत्रात् पाराशरीपुत्र औपस्वस्तीपुत्रादौपस्वस्तीपुत्रः

पाराशरीपुत्रात् पाराशरीपुत्रः कात्यायनीपुत्रात् कात्यायनीपुत्रः

कौशिकीपुत्रात् कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च

वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च कापीपुत्रः ॥ १॥


          मन्त्र २[VI.v.2]

आत्रेयीपुत्रादात्रेयीपुत्रो गौतमीपुत्राद् गौतमीपुत्रो भारद्वाजीपुत्राद्

भारद्वाजीपुत्रः पाराशरीपुत्रात् पाराशरीपुत्रो वात्सीपुत्राद् वात्सीपुत्रः

पाराशरीपुत्रात् पाराशरीपुत्रो वार्कारुणीपुत्राद् वार्कारुणीपुत्रो

वार्कारुणीपुत्राद् वार्कारुणीपुत्र आर्तभागीपुत्रादार्तभागीपुत्रः

शौङ्गीपुत्राच्चौङ्गीपुत्रः साङ्कृतीपुत्रात् साङ्कृतीपुत्र

आलम्बायनीपुत्रादालम्बायनीपुत्र आलम्बीपुत्रादालम्बीपुत्रो जायन्तीपुत्राज्

जायन्तीपुत्रो माण्डूकायनीपुत्रान् माण्डूकायनीपुत्रो माण्डूकीपुत्रान्

माण्डूकीपुत्रः शाण्डिलीपुत्राच्छाण्डिलीपुत्रो राथीतरीपुत्राद् राथीतरीपुत्रो

भालुकीपुत्राद् भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्यां क्रौञ्चिकीपुत्रौ

वैदभृतीपुत्राद् वैदभृतीपुत्रः कार्शकेयीपुत्रात् कार्शकेयीपुत्रः

प्राचीनयोगीपुत्रात् प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् साञ्जीवीपुत्रः

प्राश्नीपुत्रादासुरिवासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिः ॥ २॥


          मन्त्र ३[VI.v.3]

याज्ञवल्क्याद् याज्ञवल्क्य ऊद्दालकादूद्दालकोऽरुणादरुण

उपवेशेरुपवेशिः कुश्रेः कुश्रिर्वाजश्रवसो वाजश्रवा जीह्वावतो

बाध्योगाज् जीह्वावान्बाध्योगोऽसिताद्वार्षगणादसितो वार्षगणो

हरितात्कश्यपाद्द् हरितः कश्यपः शिल्पात्कश्यपाच्छिल्पः

कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविर्वाचो वागम्भिण्याः

अम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजूꣳषि वाजसनेयेन

याज्ञवल्क्येनाऽऽख्ययन्ते ॥ ३॥


          मन्त्र ४[VI.v.4]

समानमा साञ्जीवीपुत्रात् सञ्जिवीपुत्रो माण्डूकायनेर्माण्डूकायनिर्माण्डव्यान्

माण्डव्यः कौत्सात् कौत्सो माहित्थेर्माहित्थिर्वामकक्षायणाद् वामकक्षायणः

शाण्डिल्याच्छाण्डिल्यो वात्स्याद् वात्स्यः कुश्रेः कुश्रिर्यज्ञवचसो

राजस्तम्बायनाद् यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात् तुरः

कावषेयः प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयम्भु । ब्रह्मणे

नमः ॥ ४॥


इति पञ्चमं ब्राह्मणम् ॥


इति बृहदारण्यकोपनिषदि षष्ठोऽध्यायः ॥


इति वाजसनेयके बृहदारण्यकोपनिषत्समाप्ता ॥




Comments

Popular posts from this blog