4.2 अथ द्वितीयं ब्राह्मणम् ।

  


अथ द्वितीयं ब्राह्मणम् ।


          मन्त्र १[IV.ii.1]

जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानु

मा शाधीति । स होवाच यथा वै सम्राण् महान्तमध्वानमेष्यन्रथं

वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्यसि

एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः

क्व गमिष्यसीति । नाहं तद् भगवन् वेद यत्र गमिष्यामीत्यथ वै

तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति ॥ १॥


          मन्त्र २[IV.ii.2]

इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धꣳ

सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः

प्रत्यक्षद्विषः ॥ २॥


          मन्त्र ३[IV.ii.3]

अथैतद्वामेऽक्षणि पुरुषरूपमेषाऽस्य पत्नी विराट् तयोरेष

सꣳस्तावो य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं

य एषोऽन्तर्हृदये लोहितपिण्डोऽथैनयोरेतत्प्रावरणं

यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः सञ्चरणी

यैषा हृदयादूर्ध्वा नाड्युच्चरति । यथा केशः सहस्रधा

भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता

भवन्त्येवमस्य एताशितास्नाम नाड्यसन्तर्हृदये प्रतिष्ठितास्भवन्ति

एताभिर्वा एतदास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इवैव

भवत्यस्माच्छारीरादात्मनः ॥ ३॥


          मन्त्र ४[IV.ii.4]

तस्य प्राची दिक्प्राञ्चः प्राणाः दक्षिणा दिग्दक्षिणे प्राणाः प्रतीची

दिक्प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणाः ऊर्ध्वा दिगूर्ध्वाः

प्राणाः अवाची दिगवाञ्चः प्राणाः सर्वा दिशः सर्वे प्राणाः । स एष

नेति नेत्याऽत्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो

न हि सज्यतेऽसितो न व्यथते न रिष्यत्य्व्यथते असङ्गस्न हि

सज्यते असितस्न व्यथते न रिष्यति अभयं वै जनक प्राप्तोऽसीति

होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्

याज्ञवल्क्य यो नो भगवन्न् अभयं वेदयसे नमस्तेऽस्त्विमे विदेहा

अयमहमस्मि ॥ ४॥


इति द्वितीयं ब्राह्मणम् ॥

Comments

Popular posts from this blog

5.8 and all to the end of the book

Brihadaranyaka UpaniShad 1.1 hindi english explanation