Posts

5.8 and all to the end of the book

  अथ अथाष्टमं ब्राह्मणम् ।           मन्त्र १[V.viii.1] वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरः । तस्याः प्राण ऋषभो मनो वत्सः ॥ १॥ इत्यष्टमं ब्राह्मणम् ॥ अथ नवमं ब्राह्मणम् ।            मन्त्र १[V.ix.1] अयमाग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते । तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति । स यदोत्क्रमिष्यन्भवति नैनं घोषꣳ शृणोति ॥ १॥ इति नवमं ब्राह्मणम् ॥ अथ दशमं ब्राह्मणम् ।           मन्त्र १[V.x.1] यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते । स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथालम्बरस्य खं तेन स ऊर्ध्व आक्रमते । स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते । स लोकमागच्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीः समाः ॥ १॥ इति दशमं ब्राह्मणम् ॥ एकादशं ब्राह्म...

5.7 अथ सप्तमं ब्राह्मणम् ।

  अथ सप्तमं ब्राह्मणम् ।           मन्त्र १[V.vii.1] विद्युद् ब्रह्मेत्याहुर्विदानाद्विद्युद् विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति । विद्युद्ध्येव ब्रह्म ॥ १॥ इति सप्तमं ब्राह्मणम् ॥

5.6 अथ षष्ठं ब्राह्मणम् ।

  अथ षष्ठं ब्राह्मणम् ।           मन्त्र १[V.vi.1] मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्य सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ १॥ इति षष्ठं ब्राह्मणम् ॥

5.5 अथ पञ्चमं ब्राह्मणम् ।

  अथ पञ्चमं ब्राह्मणम् ।           मन्त्र १[V.v.1] अप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजापतिर्देवाꣳस्ते देवाः सत्यमेवोपासते तदेतत्त्र्यक्षरꣳ सत्यमिति । स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतमुभयतः सत्येन परिगृहीतꣳ सत्यभूयमेव भवति । नैनंविद्वाꣳसमनृतꣳ हिनस्ति ॥ १॥           मन्त्र २[V.v.2] तद्यत्तत्सत्यमसौ स आदित्यो । य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन् स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति ॥ २॥           मन्त्र ३[V.v.3] य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एकꣳ शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरिति । हन्ति पाप्मानं जहाति च य एवं वेद ॥ ३॥           मन्त्र ४[V.v.4] योऽयं दक्षिण...

5.4 अथ चतुर्थं ब्राह्मणम् ।

  अथ चतुर्थं ब्राह्मणम् ।           मन्त्र १[V.iv.1] तद्वै तदेतदेव तदास सत्यमेव । स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमाꣳल्लोकाञ् जित इन्न्वसावसद् य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यꣳ ह्येव ब्रह्म ॥ १॥ इति चतुर्थं ब्राह्मणम् ॥

5.3 अथ तृतीयं ब्राह्मणम् ।

  अथ तृतीयं ब्राह्मणम् ।           मन्त्र १[V.iii.1] एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वम् । तदेतत्त्र्यक्षरꣳ हृदयमिति । हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद । द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद । यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद ॥ १॥ इति तृतीयं ब्राह्मणम् ॥

5.2 अथ द्वितीयं ब्राह्मणम् ।

  अथ द्वितीयं ब्राह्मणम् ।           मन्त्र १[V.ii.1] त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १॥           मन्त्र २[V.ii.2] अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २॥           मन्त्र ३[V.ii.3] अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति । तदेतत्त्रयꣳ शिक्षेद् दमं दानं दयामिति ॥ ३॥ इति द्वितीयं ब्राह्मणम् ॥